________________
कुट्टनीमतम् ।
वस्था, व्याकरणप्रत्ययोद्देश्यं, स्वभावश्च ॥ [ " प्रकृतिस्तु सत्त्वरजस्तमसां साम्यमात्रके । स्वभावामात्यपौरेषु लिङ्गे योनौ तथाऽऽत्मनि ॥ " इति विश्वलोचने । अत्र उपमानभूतप्रकृतिशब्दस्य नानार्थत्वात् विशेषणानां च श्लिष्टत्वात् तन्मूलकाः चत्वारोऽर्थभेदाः अस्याः आर्याया: । तत्र प्रथमः कोशानुक्तवैयाकरणपरिभाषितप्रकृतिपरः, द्वितीय: सांख्योक्तप्रधानापरनामकप्रकृतिपरः, तृतीयः स्वभावार्थकः, चतुर्थः राजनीतिसम्मतामात्यादिप्रकृतिपरः इति ज्ञेयम् । तत्र श्लिष्टानां विशेष्यपदानां अर्थाः क्रमादेवं बोध्या:प्रकृति: ( १ ) अर्थावबोधहेतुः प्रत्ययविधानावधिभूतः शब्दविशेषः, नामधातुभेदेन द्विविधः प्रातिपदिकसंज्ञकः; ( २ ) सांख्योक्ता: अष्ट प्रकृतयः, तथाहि सांख्यतत्त्वविवेचने–“ अव्यक्तबुद्धयहंकारास्तन्मात्रादिपञ्चकम् । अष्टौ प्रकृतयस्त्वेता : सप्त च व्यक्ततामियात् । ” इति । ( ३ ) स्वभाव: ( ४ ) “स्वाम्यमात्य सुहृत्कोषराष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः” इत्यमरः । विशेषणानां तु प्रथमार्थे ( १ ) प्रथममध्यमो - त्तमपुरुत्राणां समीपस्थाः, यथा यातीत्यादौ; कृत्यप्रत्ययाः तव्यदादयः पराः उत्तराः यासां ताः कृत्यपराः, यथा कर्तव्यमित्यादौ विकरणाः विकरणप्रत्ययाः शयनादयः तैः उपचिता: वृद्धिंगता: ता:, यथा भवति दीव्यति इत्यादौ; बहुलानां अर्थानां ग्राहिण्यः बोधिकाः, यथा हरति इत्यादौ हृञः प्रापणस्वीकारस्तेयादयः अर्था:; दुर्ग्रहाः दुरिति उपसर्गस्य ग्रहः ग्रहणं यासु ताः । ( २ ) द्वितीयार्थे पुरुषा: सांख्यस्मृताः बहवः क्षेत्रज्ञा: तान् सन्निहिताः; कृत्यं सुखदुःखमोहात्मकमहदादिकार्यं तत्परायणाः ; षोडशविकारैश्च उपेताः, तदुक्तं सांख्यतत्त्वविवेचने – “ एकादशेन्द्रियाणि च महाभूतानि पञ्च च । विकाराः षोडशैवैते न तु प्रकृतिताजुषः ॥ " इति; दृश्यत्वपरिणामित्वविशिष्टानां पदार्थानां ग्राहिण्यः तेषां कारणत्वात्; दुर्ग्रहाः शास्त्राभ्यासेन दुःखेन ज्ञातुं शक्याः इति । ( ३ ) तृतीयेऽर्थे स्वस्वविशिष्टो भावः प्रतिपुरुषं वर्तत इति प्रसिद्धं तेन च सर्वोऽपि स्वस्वकर्मपरो भवति, उक्तं च " न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणैः || ” ( गीता ३५ ) इति । विकरणाः विकाराः क्रोधलोभादयः तैः उपचिताः पुष्टाः, नानाविधविषयसेविन्यः; दुर्ब्रहा दुःखेन नियमितुं शक्याश्व इति । ( ४ ) चतुर्थेऽर्थे राज्याङ्गानि प्रकृतयः तु प्रजान्तर्गतप्रति पुरुष सम्बद्धाः; स्वस्वप्रयोजनपरायणा:; विकरणानि विविधानि उपकरणानि तैः उपचिताः पुष्टिं नीताः; प्रजाभ्य एव बहुलस्य द्रव्यस्य ग्राहिण्यः; दुर्गहाश्व अपराजेया: इति ॥ विशेष्यपक्षे तु वेश्या: पुरुषमात्रसमीपं गच्छन्ति; कृत्यं पुरुषाणां मोहनाकर्षणादि तत्र प्रयत्नवत्यः ; विकरणानि विशिष्टा इन्द्राण्यादिरतिबन्धाः . तै: उपचिताः तत्तज्ज्ञानवत्य इत्यर्थः; बहुलस्य प्रभूतस्य अर्थस्य द्रव्यस्य ग्राहिण्यः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com