________________
दामोदरगुप्तविरचितं
रागोऽधरे न चेतसि, सरलत्वं भुजलतासु न प्रकृतौ । कुचभारेषु समुन्नतिराचरणे नाभिनन्दिते सद्भिः ॥ ३०८॥ जघनस्थलेषु गौरवमाकृष्टधनेषु नो कुलीनेषु । अलसत्वं गमनविधौ नो मानववञ्चनाभियोगेषु ॥ ३०९ ॥ वर्णविशेषापेक्षा प्रसाधने नो रतिप्रसङ्गेषु ।
ओष्ठे मदनासङ्गो नो पुरुषविशेषसंभोगे ।। ३१०॥ या बालेऽपि सरागा, वृद्धेष्वपि विहितमन्मथावेगा। क्लीवेष्वपि कान्तदृशः, साकाङ्क्षा दीर्घरोगेऽपि ॥ ३११ ॥ स्वेदाम्बुकणोपचिता अनार्द्रतानिजनिवासमनसश्च । आविष्कृतवेपथवो वज्रोपळसारकठिनाश्च ।। ३१२॥ जघनचपला अनार्याः, परभृतयः कृतकनेत्ररागाश्च ।
सर्वाङ्गार्पणदक्षा असमर्पितहृदयदेशाश्च ॥ ३१३ ॥ अकुटिलता च, [प्रकृतौ स्वभावे] । समुन्नतिः उत्तुङ्गता उत्कर्षश्च ॥ ३०८ ॥ गौरवं पीवरत्वं समादरश्च । अलसत्वं मन्थरगामित्वं दीर्घसूत्रता च, [अभियोगः अभिनिवेश:। नो न] ॥ ३०९ ॥ वर्णः शुक्लादिः द्विजादिश्च, [नो इत्यादि वेश्यानां सर्वसाधारणत्वात् ] । ओष्ठे मदनासङ्गो वाङ्मात्रे कामसम्बन्धः, [यद्वा मदनस्य मधूच्छिष्टस्य आसङ्गः निवेशनं दंशेन शीतेन वा जातस्य विरोपणार्थ, “ मदनः स्मरधत्तरवसन्तद्रुमसिक्थके " । इति विश्वलोचने । ] ॥ [ पुरुषविशेषाणां रूपगुणयौवनादिसंपन्नानाम् । ] ॥३१०॥ [इत: पञ्चके विरोधाभासालंकारेण अप्रथमे श्लेषानुगृहितेन च तेन तासां अनभिनन्दनीयानि चरितानि उद्घाटयति या इति।] केवलं द्रव्यमोषणासक्तत्वेन बालवृद्धादिष्वना(दिष्वा ? )स्थाभाजः । [यदुक्तं-" सर्वाङ्गना तु वेश्या " इति ( काव्यालंकारे १२।३९)] ॥ ३११ ॥ आर्द्रता क्लिन्नता सरसता च ।[अनार्द्रतायाः निजनिवासः स्वगृहं मनो यासां ताः । ] [अत्र च: अप्यर्थकः,] वेपथुः कम्पः, स च पुरुषप्रतारणायैव आविष्क्रियते ताभिः, वज्रोपलो हीरकमणिः, सारः [स्थिरांश:] ॥ ३१२ ॥ जघनचपलानामच्छन्दसो आर्याछन्दोऽन्तर्गतविशेषरूपतया कथं अनार्याः आर्याच्छन्दोभिन्नाः, [ तल्लक्षणं तु “प्राक्प्रतिपादितमधे प्रथमे चरमदले
३१० रतिप्रवन्धेषु (गो. का)। विशेषजनितसंभोगे (प) ३११ मन्मथावेशा (गो २) ३१२ चिता न चार्द्रता (गो. का.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com