________________
कुट्टनीमतम् ।
स्खलिताकुलिते गमने तन्वङ्गया अगणितश्रमा हंसाः । मुचिराल्लब्धावसराः कुर्वन्ति गतागतानि परितुष्टाः ॥ २९२ ॥ उष्णोच्छ्रसितसमीपे विदह्यमानोऽपि मधुकरस्तस्याः । अलककुसुमं न मुञ्चति, कृच्छ्रेष्वपि दुस्त्यजा विषयाः॥२९३॥ नो वारयसि तथा मां साम्प्रतमिति कथयतीव मधुलेहः । निःसहवपुषः कर्णे श्रुतिपूरकपुष्पसंगतो गुञ्जन् ॥ २९४ ॥ प्रशिथिलभुजलतिकायास्तस्याः पतितस्य हेमकटकस्य ।
यत्प्रापणं पृथिव्यास्तस्मिन्खलु मुक्तहस्तता हेतुः ।। २९५ ।। अधुना निर्भीकं प्रकटं गमनानि आगमनानि च कुर्वन्ति इत्यर्थः ॥२९२॥ विरहजनितं अन्तस्तापं वर्णयति उष्णेति । अलककुसुमं अलका: केशाः तत्र शोभार्थ निहितं पुष्पं, अत्र जातावेकवचनम् । कृच्छ्रेषु कष्टेषु शरीरपीडासु अपि, विषयाः विशेषेण सिन्वन्ति बध्नन्ति पुरुषं ते विषयाः रूपादिगुणयुक्ताः पदार्थाः, दुस्त्यजाः दुःखेन त्यक्तुं शक्याः । अर्थान्तरन्यासालंकारः ॥ २९३ ॥ तथा पूर्ववत्, साम्प्रतं सम्प्रति अस्मिन्काले, मधुलेहः भ्रमरः, लेढि इति लेहः, " श्याव्यधा ” इत्यादिना (पा. सू. ३।१।१४१) णप्रत्यये उपधागुणः, ततो मधुनो लेहः आस्वादयिता इति, धरतीति धरः, गङ्गायाः धरः गङ्गाधरः इतिवत् षष्ठीतत्पुरुषः । निःसहं वपुः यस्याः तस्याः निःसहवपुषः स्वशरीरधारणमपि भारभूतं यस्याः तस्या इत्यर्थः, श्रुतिपूरकं कर्णपूरकं कर्णपूरं कुवलयं, “ कर्णपूरं कुवलयेऽप्यवतंसशिरीषयोः ।" इति विश्वलोचने । उत्प्रेक्षालंकारः । अत्र शरीरधर्मत्वे सति चेष्टानिरोधः इति लक्षितः प्रलयाख्यः सात्त्विको भावो वर्णितः । भ्रमरबाधावर्णनं शाकुन्तले यथा-"चलापाङ्गं दृष्टः स्पृशसि बहुशो वेपथुमती, रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं, " (१।१९) इति ॥ अपिच-" विलोलतां चक्षुषि, हस्तवेपथु, ध्रुवोर्विभङ्ग, स्तनयुग्मवल्गितम् । विभूषणानां क्वणितं च, षटुद: गुरुर्यथा नृत्यविधौ समादधे ॥” (११॥ ३७) इति भट्टिकृतरावणवधकाव्ये ॥२९४॥ कटकं वलयं नाम प्रकोष्ठाभरणम् ' कहूं' इति भाषायाम् । ] मुक्तहस्तता विरहक्लान्त्या शिथिलहस्तता उदारता च । [अनेन तस्याः तानवाख्यः संचारिभावावस्थाविशेषः उक्तः कृशतानाम्नी पञ्चमी स्मरदशा वा उक्ता । कृशात् बाहोः कटकस्य भ्रंशः स्वाभाविक एव, अतः अत्र वैचित्र्यार्थ मुक्तहस्तता इति श्लिष्टपदद्वारा काव्यलिङ्गालङ्कारः सम्पादितः । कालिदासस्तु " . . 'मुहुर्मणिबन्धनात् कनकवलयं सस्तंत्रस्तं मया प्रतिसार्यते । " (शाकुं० २।१३) इत्येतावत् Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com