________________
दामोदरगुप्तविरचितं
यस्मिन्नेव मुहूर्ते चक्षुर्विषयं गतोऽसि मे सख्याः । तत एवारभ्य गता विधेयतां दग्धमदनस्य ॥ २८८ ॥ रोमोद्रमसन्नहनं भित्त्वाऽन्तर्विग्रहं परापतिताः । तस्या मानससम्भवकोदण्डविनिर्गता इषवः ।। २८९ ॥ किं वा वदतु वराकी, कुत्र समाश्वसितु, यातु कं शरणम् । पीडयति भृशं यस्मान्नित्यं शुचिदक्षिणो मृदुः पवनः ॥ २९० ॥ वचसि गते गद्दतामुज्झितमौनव्रताश्चिराय पिकाः ।
हृष्टा व्यथयन्ति सखीं जातावसरा निरर्गलं विरुतैः ॥ २९१ ॥ परिसङ्ख्याताः विरलाः । बुद्धौ स्फुरन्ति स्मृतिमुपगच्छन्ति ॥] २८७ ॥ [ चक्षुर्विषयं गतः दृष्टः । दग्धशब्देन निन्दा गम्यते ॥ २८८ ॥ सात्त्विकभावेषु पुलकोद्गमं वर्णयति रोमेति।] अन्तर्विग्रहं विग्रहान्तर् इत्यर्थ:, [अर्थात् प्रकृते अन्तःकरणम् । रोमोद्गमस्य पुलकानां उद्गमस्य, सन्नहनं बन्धः, स कीदृशः, अन्तःकरणं भित्त्वा परापतिता: प्रतिनिवृत्ताः कामत्राणा एव । अत्र रूपकालंकारः, पुलकानां इषुफलानां च ताद्रूप्यम् । अनेन सा कामबाणभिन्ना इति सूचितम् ॥] २८९ ॥ [ वराकी दीना, भृशं अत्यर्थम्, मृदुः कोमल:, अतएव शुचिदक्षिणः शृङ्गाररसानुकूलः, " शुचिः शुद्धे सितेऽनले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि । शृङ्गारे च " इति हैमः, “ दक्षिणः सरलावामपरछन्दानुवर्तिषु " इति च विश्वलोचने । अपि च शुचिदक्षिणोऽमृदुः इति शुचिः अग्निः ग्रीष्मः तद्वत् दाहे दक्षिणः निपुणः अत एव अमृदुः तीक्ष्ण: सन् पीडयति इत्यपि श्लेषेण सूच्यते ] ॥ २९० ॥ [ सात्त्विकेषु भावेषु स्वरभङ्गं कथयति वचसीति । जातावसराः कलकण्ठत्वे पराभवहेत्वपगमात् प्राप्तसमयाः, निरर्गलं निरङ्कुशं, विरुतैः विरावैः कलशब्दैः । कलकण्ठ्या तया मूकीकृताः कोकिलाः लब्धच्छिद्राअधुना वैरनिर्यातनं कुर्वन्ति इति भावः । अत्र क्षुद्रैः तिर्यग्भिरपि तद्वयथोत्पादनस्य प्रियविरहजनितस्वरभङ्गेन समर्थनात् काव्यलिङ्गालङ्कारः ॥] २९१ ॥ [ गतौ वेपथुः जन्यं स्खालित्यं वर्णयति स्खलितेति । एवमेव पूर्व तद्गमनलीलया पराजिता हंसा: “प्रादुःष्यात्क इव जित: पुरः परेण । ” ( ८/१२ ) इति माघोक्त्यनुसारेण अन्तर्हिताः,
I
६६
२८८ यदवधि दृष्टोऽसि मे सख्या (गो २ का) चक्षुर्विषयोऽसि मम सख्याः (कापा ) २८९ भित्त्वा पीडयन्ति ( प ) । तस्यां (प. कापा ) । विनिःसृता इषवः ( प ) २९० किं विदधातु वराकी ( प. कापा ) । नित्यशुचिर्दक्षिणो मृदुपवनः ( प. ) यस्या नित्यशुचिदक्षिणः पवनः (कापा ) । २९१ प्राप्तावसरा ( गो २ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com