________________
कुटनीमतम् ।
'सखि कुरु तावद्यत्नं पटुतरमतिवेदनापतीकारे । क्रोडीकृता विपत्त्या न भवन्त्युपदेशयोग्या हि ॥ २८३ ॥ अस्वायत्तः प्रेयान् मृदुपवनः सुरभिमास उद्यानम् । इयती खलु सामग्री भवति क्षीणायुषामेव ।।' २८४ ॥
मत्वा मदनाशीविषविषवेगाकुलितविग्रहामालीम् । समुपेत्य शशिप्रभया पौरन्दरिरभिदधे कृतप्रणतिः ॥ २८५ ॥ 'यदि नाम रुणद्धि गिरं गणिकाभावोपजनितवैलक्ष्यम् । तदपि कथनीयमेव, स्निग्धापदि न हि निरूप्यते युक्तम् ॥२८६॥ एतावति संसारे परिगणिता एव ते सुजन्मानः ।
आपन्नपरित्राणे व्याकुलमनसः स्फुरन्ति ये बुद्धौ ॥ २८७ ॥ ॥ २८२ ॥ [ पटुतरं तीक्ष्णं चातुर्ययुक्तं वा, प्रतीकारे प्रतिकरणे निग्रहे । अर्थान्तरन्यासेन तदेव समर्थयति क्रोडीति । ] क्रोडीकृताः अङ्कीकृताः आक्रान्ताः, [ उपदेशः हिताहितविवेककथनम् । विपन्नानां विपत्तिप्रतीकार एव अभीष्टः, न तेषां शुष्कोपदेशश्रवणेन किमपि प्रयोजनं इति भावः ॥ ] २८३ ॥ [ अस्वायत्तः अस्वाधीनः प्रेयान् प्रियः, सुरभिमासः चैत्रः । समुच्चयालंकारः, अत्र मृदुपवनादीनां स्वत:शोभनत्वेऽपि विरहिणीविषयतया अशोभनता ज्ञेया, अत: अशोभनसमुच्चयोऽयम् ॥ ॥ २८४ ॥ [ आशीः तालुगता दंष्ट्रा तत्र विषं यस्य सः आशीविषः सर्पः, विग्रहः देहः । पौरन्दरिः पुरन्दरस्यापत्यं सुन्दरसेनः ॥ “ विज्ञातनायिकाचित्ता सखी वदति नायकम् ।" (११५३) इति शृंगारतिलकोक्तन्यायेन शशिप्रभया अभिदधे इति । ॥1२८५ ॥[ रुणद्धि गिरं वक्तुं न ददाति, अस्या गणिकात्वात् कथं सुजातेन सा स्वीकरिष्यते इति] वैलक्ष्यं लजा। [ मित्रविपत्तौ तदूरीकरणार्थ इदं युक्तं न वेति न विचार्यते । तथा च माघ:-" विपदि न दूषिताऽतिभूमिः ।" ( ८।२०) इति, ( अतिभूमि: अमर्यादा ।) अत्रापि समर्थ्यसमर्थकयोः सामान्यविशेषसम्बन्धे अर्थान्तरन्यासालंकारः ॥ ]२८६॥ [आपन्नाः विपद्स्ताः । एतावति महति इत्यर्थः, परिगणिताः
२८३ यत्नं बहु मन सजवे (गो २) बहुमतमति वें (कापा)। क्रीडीकृता (प.) २८४ सुरभिकुसुममुद्यानम् (१) । इयमियती सा (गो २ कापा) २८५ मदनाशीविषवेगा (प)। स उपेत्य (प) २८६ गणिकाभावोऽपि जनित (प)। कथितव्यमेव (प. कापा)। २८७ ते सुजनाः (का)। आपत्सु परित्राणव्याकुलमनसां (प)। कोमलमनसः (कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com