________________
६४
दामोदरगुप्तविरचितं अभिरामेऽभिनिवेशं विदधाना विविधलाभनिरपेक्षा । उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥ २७९ ॥ येषां श्लाघ्यं यौवनमभिमुखतामुपगतो विधिर्येषाम् । फलितं येषां सुकृतं जीवितसुखितार्थिता येषाम् ॥ २८० ॥ तेऽवश्यं स्वयमेव त्वामनुबध्नन्ति मदनशरभिन्नाः । न हि मधुलिहः कृशोदरि मृग्यन्ते चूतमञ्जर्या ॥ २८१ ॥
(युगलकम् ) इति गदितवतीमाली कामशरासारभिन्नसर्वाङ्गी ।
अव्यक्तस्खलिताक्षरमूचे कृच्छेण हारलता ॥ २८२ ॥ विनवित्तस्य । [ मुग्धे तत्त्वानभिज्ञे, रूपं आजीवो जीवनसाधनं यासां ता: रूपाजीवा वेश्या एव वयम् इति भावः ॥] २७८॥ अभिरामे मनोजे, केवलं तारुण्यलुब्धा सतीअभिनिवेशं विदधाना अनुरक्ता, [ उपहस्यसे उपहसिष्यसे इत्यर्थः, “ वर्तमानसा, मीप्ये वर्तमानवद्वा” इति लट् , तेन वर्तमानसमीपभविष्यत्कालद्योतनात् । ] विदग्धैः स्वव्यवहाराभिज्ञैः, वाराङ्गनानां, वारैः वरसमूहै: विटैः इति अर्थः; [ यद्वा वाराङ्गनानां वारैः समूहैः विविधवेश्यागणैः इत्यर्थः ॥ ] २७९ ॥ [ येषां कामुकानां, श्लाघ्यं सुरूपाप्राप्त्या आश्रयबलेन वा प्रशस्यं; अभिमुखतां उपगतः प्रसन्न इति यावत् ; जीवितं जीवनं तस्य सुखिता आनन्दः ॥] २८०॥ अनुबध्नन्ति प्रार्थयन्ति [ वस्तुतः अनुवर्तन्ते अनुषजन्ते वा, पूर्ववत् वर्तमानसामीप्ये लट्प्रयोगः तेन अनुषजिष्यन्ते अनुगमिष्यन्ति इति वाऽर्थः ॥ प्रतिज्ञामात्रेण नेदं प्रत्यायकं चेत् स्वोक्तसमर्थनार्थ वैधाण अर्थान्तरं न्यस्यति नहीति । मधुलिहः भ्रमराः, मधुशब्दप्रकृतिककर्मषष्ठयन्तात् लिहधातो: " क्विप् च " (पा० सू० ३ । २ । १६) इति क्विप् ; मधु लेढि आस्वादते इति लौकिकविग्रहः, कुम्भं करोतीति कुम्भकारः इतिवत् , समासस्तु षष्ठयन्तपदस्यैव । कृशोदरि निम्नोदरि इत्यर्थः, मृग्यन्ते अन्विष्यन्ते, चूतः आम्रः । तथा च कालिदासः" न रत्नमन्विच्छति मृग्यते हि तत् । " (कुमार० ५।४५ ) इति । अन्यत्र च" नानीयन्ते मधुनि मधुपाः पारिजातप्रसूनैः, नाभ्यर्थ्यन्ते तुहिनरुचिना चन्द्रिकाभिश्वकोराः ।" इति । अर्थान्तरन्यासालंकारः ॥ ] २८१ ॥ [कृच्छ्रेण कष्टेन ॥ ]
२७९ विनिवेशं (प. गो २. कापा)। विभवलाभ (गो २) २८० सुकृतैः (प. गो २. का) २८१ मधुलेहाः सुन्दरि (प. कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com