________________
६८
दामोदरगुप्तविरचितं
रशनागुणेन विगलितमेकपदे तन्नितम्बतश्चित्रम् । पतनाय नियतमथवा निषेवणं गुरुकलत्रस्य ॥ २९६ ॥ अङ्गीकृत्य मनोभवमुरसि तथा लालितोऽपि हतहारः । तापयति सखीं तत्क्षणमन्तर्भिन्नात्कुतः कुशलम् ॥ २९७ ॥ वाससितं स्वेदजलं कज्जलमलिनाश्रुवारिणा मिश्रम् । कुचतटपतितं तस्याः प्रयागसंभेदसलिलमनुक्कुरुते ॥ २९८ ॥
1
अवर्णयत् ॥] २९५॥ [ अन्यत्रापि तत् वर्णयति रशनेति । रशना रसना वा स्त्रीकटिभूषणं काञ्ची, तस्याः गुणः बन्धनरज्जुः । एकपदे तत्कालं युगपत् । नितम्बः निभृतं तम्यते काङ्क्षयते कामुकैः इति नितम्बः स्त्रीकट्याः पश्चाद्भागः । इदमपि महच्चित्रं यत् रशनाऽपि विस्तारिनितम्बात् विगलिता । अथवा इदं न चित्रं इति आक्षिपति पतनायेति । ] गुरुकलत्रस्य गुरुभार्यायाः, निषेवणं कामभावो ( वनयो ? ) पसेवनं, पतनाय पातित्याय, नियतं निश्चितं, [ तथाहि याज्ञवल्क्यः " ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एवे महापातकिनो यश्च तैः संपिबेत्समाः || ” ( सह संवसेत् इति पाठान्तरम् ) (३।२२७) इति। ] तथाऽत्रापि रशनागुणेन काञ्चया, गुरुणो विशालस्य, तस्या: कलत्रस्य श्रोणिभागस्य, सम्बन्धः संपादितः इति पतनम् अधः स्खलनं, नाश्चर्यकारीति । [ " कलत्रं श्रोणिभार्ययोः " इति अमरः । ] [ आक्षेपश्लेषार्थान्तरन्यासानां सङ्करः ] ॥ २९६॥ [विरहे स्त्रीणां अलंकारधारणं अनुचितं, तत्र केषाञ्चित् अलंकाराणां दूरीभाव: विरहजनितकार्यात् स्वयमेव जातः इति द्वाभ्यां उक्तम् । अधुना अपरस्य स्थितिं कथयति अङ्गीति । तथा चार्थे। किञ्च प्रियवत् उरसि संस्थापनेन लालितोऽपि हारः, अधुना तस्याः शत्रुं मनोभवं कामदेवं, अङ्गीकृत्य तत्पक्षं स्वीकृत्य, शत्रुभूतः सन्, अतएव हतः कृतमनोभङ्गः, एनां मत्सखीं तापयति, स्वीया अपि प्रतिपक्षीभूता इति करुणं वर्तते इति भावः । अर्थान्तरन्यासेन समाधत्ते अन्तरिति । ] अन्तर्भिन्न: [ भेदं प्राप्तः ] सच्छिद्र: [ हारवर्तिमुक्तानां तथात्वात्, पक्षे] अन्तः गृहे मनसि वा परस्परं कलहादिना विरुद्धश्च । [ कुशलं क्षेमम् ] ॥ २९७॥ [ स्वेदाश्रुसात्त्विकभावौ एकेनाह वासेति । वासेन तस्याः शरीरे अवस्थानेन सितं श्वेतं, तस्याः अङ्गस्य गौरत्वात्, स्वेदजलं बाहुल्यात् ललाटतः कपोलतलं प्राप्य तत्र चक्षुर्वर्तिकजलात् जातमलिम्ना अश्रुजलेन मिश्रं सत् कुचतटे - तितम् । प्रयागः तीर्थराज: संप्रति ' अल्लाहाबाद ' इत्यपरनाम्ना प्रसिद्धः तत्र ] संभेद: [ गङ्गायमुनयो: ] सङ्गमः [ तस्य सलिलं श्वेतकृष्णवर्ण जलं तदनुकुरुते तत्साम्यं
I
२९८ वक्षसि तत्स्वेदजलं ( प . का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com