________________
कुट्टनीमतम् ।
तरुमूलमाश्रिताया विस्मृतसकलान्यकर्मणः सपदि । तस्या गात्रलतायामकरितं सात्त्विकैर्भावैः ॥ २६८ ॥ सैवोपवनसमृद्धिस्तस्मिन्नेव क्षणे स्मरं स्मृत्वा । तां व्यथयितुमारेभे, प्रभोहि कृत्यं करोति खलु सर्वः ॥२६९॥ गात्रसिरासंधिभ्यः प्रस्वेदजलं विनिर्ययौ तस्याः। अन्तर्वलितमनोभवहव्यभुजा दह्यमानेभ्यः ॥ २७० ॥ कुसुमशरजालपतिता मुहुर्मुहुर्विदधती विवृत्तानि । अनिमेषं पश्यन्ती मत्स्यवधूमनुचकार सा तन्वी ॥ २७१ ॥ स्तब्धतनुं सोत्कम्पा पुलकवती स्वेदिनी सनिःश्वासाम् ।
विदधे तामसमशरः, क्रीडति हि शठो विशिष्टमासाद्य ॥२७२॥ आसक्ता इत्यर्थः ॥ २६७ ॥ [ सपदि तत्क्षणम् ।] सात्त्विकैः भावैः स्तम्भादिभिः, [ते च–“ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥” इति । “ अत्र सत्त्वं जीवच्छरीरं तस्य धर्माः सात्त्विकाः, तथाच शारीरा: भावाः स्तम्भादयः सात्त्विका भावाः " इति रसतरङ्गिणीकारः । स्थायिनो व्यभिचारिणश्च भावा आन्तरा एव इति विवेकः ।। अङ्कुरितं प्रादुर्भूतम् । [गात्रलता इत्यत्र शब्दोपात्तं, अङ्कुरितं इत्यत्र च श्लेषसा. मर्थ्याक्षितं रूपकं, तरुमूलं इत्यत्र च प्रियरूपविषयनिगरणव्यञ्जनात् रूपकातिशयोक्तिध्वननेन एकदेशविवर्तिरूपकालंकारः अत्र बोध्यः। ॥ २६८ ॥ [ उपवनसमद्धिः वसन्तकृता, वसन्तस्य च मित्रं स्मरः, अतः सोऽपि प्रभुः । स्मरं स्मृत्वा अर्थात् तस्य कामिपीडनरूपनिदेशं स्मत्वा । तथाहि माघ:-" प्रभुचित्तमेव हि जनोऽनुवर्तते ।" इति (१५।४१)। अर्थान्तरन्यासालंकारः।] ॥ २६९ ॥ [इतः षडभिः तान् सात्त्विकभावान् वर्णयति ते यथायथमूह्याः।][सिरा ' शिरा ' इति तालव्यादिरपिनाडी । हव्यभुक् अमिः । बब्बुलादिकाष्ठविशेषेषु दह्यमानेषु तद्रन्थिभ्यः छिन्नभागेभ्यो वा तैलरूपं जलं निःसरतीति प्रसिद्धम् । ] ॥२७०॥ विवृत्तानि परावर्तनानि । मत्स्यवधूः मत्सी, तस्या अनिमेषचक्षुष्टुं प्रसिद्धमेव । अनेन चक्षुश्चेष्टानिरोध: प्रलयविशेष उक्तः । उपमालंकारः । ॥ २७१ ॥ [ असमशरः पञ्चवाण: कामः । शठः धूर्तः, विशिष्टं विशेष प्राप्य, क्रीडति यथेष्टं तथा रमते-तेन स्वेच्छवर्तनं कारयति । अर्थान्तर
२६८ मासिताया ( कापा) २६९ स्मरं समाश्रित्य (प. का. गो २) प्राप्य (गो २ कापा)। प्रभवत्कृत्यं (प) २७० गात्रसरसन्धनेभ्यः (प. कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com