________________
दामोदरगुप्तविरचितं
प्रकटितविग्रहसंस्थितिरतिशोभाघटितसन्धिबन्धा च । उन्नतपयोधराव्या शरदिन्दुकरावदाता च ॥ २६५ ॥ अभिमतसुगतावस्थितिरभिनन्दितचरणयुगलरचना च । अतिविपुलजघनदेशा विध्वस्तशरीरविहितशोभा च ॥ २६६ ॥
आविर्भवदनुरागे तस्मिन्नथ वलितलोचना सहसा ।
सापि बभूव मृगाक्षी हस्तगता कुसुमचापस्य ॥ २६७ ॥ तद्दर्शनजनिताश्चर्यातिशयो व्यज्यते । ] निर्दोषा बाहुहीना कथं ललितवपुः, अथ च रात्रिहीना कथं स्फुरन्तीभिः तारकाभिः नक्षत्रैः अभिरामा । निर्वाच्यं निरभिधेयं कथं वदनमिति कथं निर्वाच्यवदनकमला। यदि जिता वीणा यया सा, तर्हि कथं क्वणिता वीणाशब्दतुल्या [यद्वा कणः वीगाध्वनिः संजातोऽस्यास्तादृशी, वगशब्दात्तारकादित्वात् इतन् । ] वाणी यस्याः सेदृशी। (२६४ ।) प्रकटिता विग्रहस्य युद्धस्य संस्थितियया सा, कथम् अतिशोभया घटितः सन्धिबन्धः संमेलो यस्याः तादृशी । उन्नतैः पयोधरैः परिपूर्णा, कथं शरदिन्दुकरैः शुभ्रा, मेघानां वर्षासु समुपलब्धेः । (२६५ ।) अभिमता सुगतावस्थितिः बुद्धावस्थितिः यस्याः सा, कथं ' अभिनन्दितचरणरचनशोभा '[इति पाठे ] चरणो वेदशाखा, वेदस्य तेन निन्दि. तत्वात् तथा भवितुं सा नार्हति; ' चरणयुगलरचना च ' इति [मूल] पाठे ऋक्सामरूपतया ऋग्यजूरूपतया मन्त्रब्राह्मणरूपतया वा [चरण] युगलत्वं निर्वहति । अतिविपुलजघनभागा च सुलक्षणा सुन्दरी भवति इति तादृशी, कथं विध्वस्ता शरीरशोभा यस्याः सा तथा, इति विरोधपरम्परा (२६६ ।)। निर्दोषा दोषैींना, तारका नेत्रकनीनिका, स्फुरन्त्या उज्ज्वलया तया मनोज्ञा । निर्वाच्यं वर्णनीयं वदनकमलं यस्या सा; जितवीणा वीणाधिकमधुरध्वनिः, क्वणितवाणी वीणाक्वणिततुल्यवाणी। (२६४ ।) विग्रहसंस्थितिः शरीरविन्यासः, सन्धिबन्धोऽवयवसंश्लेषः । पयोधरौ स्तनौ । ( २६५ । ) सुगतं [सु] शोभनं [गतं] गमनम् , चरणौ पादौ। विध्वस्तं शिवेन दग्धं शरीरं यस्य तेन कामेन सम्पादितशोभा च-इति विरोधपरम्परापरिहारः ॥ २६४ ॥ ॥ २६५ ॥ २६६ ॥ [ आविर्भवदनुरागे इति । अत्रेदं बोध्यं-प्रथमं सुन्दरसेने एव रागाविर्भावः, तस्य प्रथम नायिकादर्शनात् , तथापि "पूर्व नारी भवेद्रक्ता पुमान् पश्चात्तदिङ्गितैः ।" इति कविसमयात् पूर्वरागः प्रथमं स्त्रिया एव वर्णितः चमत्काराधायकः इति कृत्वा कविना नायिकानुरागवर्णनं प्रस्तुतम् इति ॥ 1 हस्तगता वशवर्तिनी
___ २६५ रतिशोभनघ (प) । कलावदाता ( कापा) २६६ चरणरचनशोभा च (कापा) (गोटि)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com