________________
कुट्टनीमतम् ।
५९
हस्तोच्चयं विधातुः, सारं सकलस्य जन्तुजातस्य । दृष्टान्तं रम्याणां, शस्त्रं संकल्पजन्मनो जैत्रम् ॥ २५९ ॥ विकसितकुसुमसमृद्धि, शृङ्गाररसापगैककलहंसीम् । लीलापल्लववल्ली, वतिनामवधानवर्मणां भल्लीम् ॥ २६० ॥ विचरन्नुपवनमण्डपपुष्पप्रकराभिरामभूपृष्ठे । रममाणां सह सख्या ललनामालोकयामास ॥ २६१ ॥
(कुलकम् ) अवलोकयतस्तस्य स्मरसायकवेध्यतामुपगतस्य । इदमभवन्मनसि चिरं विस्मयभाराभिभूयमानस्य ॥ २६२ ।। केदं खलु विश्वसृजः कौशलमत्यद्भुतं जातम् । येन विरुद्धानामपि घटितैकत्र स्थितिस्तथाहीयम् ॥ २६३ ॥ ललितवपुर्निदोषा स्फुरदुज्ज्वलतारकाभिरामा च ।
निर्वाच्यवदनकमला जितवीणा कणितवाणी च ॥ २६४ ॥ अचिराभेति । अचिराभा क्षणप्रभा विद्युत् , विघना तत्पतित्वेन कल्पितेन मेघेन रहिता। कुमुदबन्धुः चन्द्रः। मालापूर्वक: उपमालंकारः; अत्र घनादिन्यूनत्ववर्णनं नायिकायाः प्रियाभावसूचनेन एकाकित्वरूपसाधर्म्यसंपादनार्थ इति न दोषः इति प्राचां मतानुसारेण; वस्तुतस्तु अत्र उपमावाचकशब्दोपादानात् न्यूनताद्रूप्यरूपकवत् न्यूनोपमा ग्राह्या, न तु विनोक्तिः। ॥२५८॥ [इत आर्याद्वये रूपकम् । ] हस्तोच्चयो हस्तकौशलम् । वर्णयिष्यमाणा हारलतानाम्नी काचित् हस्तोचयादिरूपेण निरूपिता । जातं समूहः, " जातं जनिसमूहयोः " इति विश्वः । दृष्टान्तं निदर्शनम् । [ जैत्रं जयनशीलम् ] ॥ २५९ ॥ [ कुसुमसमृद्धि: वसन्तर्तुः । विविधलीलारूपा ये पल्लवाः तेषां वल्ली, लीलावती इत्यर्थः । व्रती तपस्वी, अवधानं समाधिः वर्म कवचं यस्य स अवधानवर्मा। " अवधानसमाधानप्रणिधानानि तु समाधौ स्युः । " इति हैमः । भल्ली 'भाला' इति प्रसिद्धं भेदकं शस्त्रम् । ] ॥ २६० ॥ २६१ ॥ विस्मयेत्यादि । संजाताश्चर्यातिशयस्य इति अर्थः ॥२६२॥२६३॥ [इतः त्रिषु विरोधाभासालंकारमालया नायकस्य
२५९ हस्तोच्चयः (गो. कापा.) हस्त्वोलकं (का.)। अस्त्रं ( कापा ) २६० विलसित (कापा) । शृङ्गारसरोवरैक ( कापा) २६१ प्रसरा ( गो २) २६२ स्मरमार्गण 'मुपेतस्य (प)। इदमासीन्म (प. कापा) २६३ द्भुतं समुपजातम् (प. कापा) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com