________________
दामोदरगुप्तविरचितं
ध्वजिनीव दानवानां मिष्टकसमधिष्ठिता, त्रियामेव । उद्यात रोहिणीका, रम्येयमुपत्यका भाति ।। २५३ ॥ (संदानितकम् )
इति दर्शयति वयस्ये, सुन्दरसेने च पश्यति प्रीत्या । स्वप्रस्तावोपगता गीतिरियं केनचिद्गीता ॥ २५४ ॥ 'अतिशयितनाकपृष्ठं पृष्ठं ये नार्बुदस्य पश्यन्ति । बहुविषयपरिभ्रमणं मन्ये क्लेशाय केवलं तेषाम् ।। ' २५५ ॥ आकर्ण्य च स बभाषे महात्मनाऽनेन युक्तमुपगीतम् । शिखरिशिरः पश्यामो वयस्य रम्यं समारुह्य ।। २५६ ।।
अथ गिरिवरमारूढो विलोकयन् विविधविबुधभवनानि । वापीरुद्यानभुवः सरांसि सरितश्चचार विस्मेरः ॥ २५७ ।। अचिराभामिव विघनां, ज्योत्स्नामिव कुमुदबन्धुना विकलाम् । रतिमिव मन्मथरहितां, श्रियमिव हरिवक्षसः पतिताम् || २५८ || कोरांटी' इति व्यवह्रियमाणानां ] च व्रातैः समूहैः; पक्षे अर्जुनस्य पार्थस्य, बाणानां शराणां, समूहैः संछन्ना समावृता; [ वरूथिनी सेना ।] ऋक्षाणां भल्लकानां [ 'रिंछ' इति भाषायां प्रसिद्धानां, ] पक्षे नक्षत्राणां सहस्रेण परिपूर्णा ॥ २५२ ॥ [ ध्वजिनी सेना । मिष्टकः मिष्टत्वात् आम्रः स्यात् तद्वृक्षैः, दानवविशेषेण च; ] [ ' मस्तकसमधिष्ठिता ' इति पाठे ] मस्तकैः देवदारुवृक्षैः [ मस्तकरूपेण तत्तदधिकारस्थानेषु स्थितैः ] प्रधानाधिकारिभिश्च समधिष्ठिता । [ 'अक्षाङ्क' इति पाठे अक्षनामानः बिभीतकवृक्षाः, पक्षे • अक्षनामा दानवः। ] [ त्रियामा रात्रि:,] रोहिण्यो लता:, [ यद्वा रोहिणीका 'कुटकी' 'कडु' इति वा भाषायां प्रसिद्ध: लघुवृक्षविशेष:, ] रोहिणी नक्षत्रविशेषश्चेति सर्वत्र यथायोग्यमन्वयः। [उपत्यका अद्रेः अधः आसन्ना भूमिः ॥] ॥ २५३ ॥ [प्रस्तावः प्रसङ्गः ।] ॥ २५४ ॥ नाकपृष्ठं स्वर्गभूम्युपरितनभागः, तत् अतिशयितं अधरीकृतं [अतिक्रान्तं ] येन, ततोऽप्यतिसुन्दरं इत्यर्थः । विषयाः देशा:, “देशविषयौ तूपवर्तनम् I " इति अमरः ॥ २५५ ॥ विबुधभवनानि देवप्रासादाः । [ वापी दीर्घिका । उद्यानं राज्ञः सर्वोपभोग्यं वनम् । ] विस्मेरः साश्चर्यः ॥ २५७ ॥ [ चतुर्भिः तत्र दृष्टिपथं उपयातां नायिकां वर्णयति
५८
२५३ ध्वजिनीव दामवानासृष्टकसम ( प. ) 'वानां मस्तकसमवेष्टिता । ( गो २ ) सृष्टाङ्कसमौं; अक्षाङ्कुसमौं (कापा) २५५ बहुदेश ( गो २) २५७ रसितश्च जातविस्मेर : ( प. )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com