________________
कुट्टनीमतम् ।
मूर्तिरिव शिशिररश्मेहरिणवती, सप्तपत्रकृतशोभा । सरणिरिव चण्डभासः, पलाशिनी यातुधानजायेव ॥ २५० ॥ सोत्कण्ठेव समदना, वासकसजेव कृततिलकशोभा । बहुहरिपीलुसनाथा नरनाथद्वारभूमिरिव ॥ २५१ ॥ अर्जुनबाणवातैः कुरुनाथवरूथिनीव संछन्ना ।
ऋक्षसहस्रोपचिता लक्ष्मीरिव गगनदेशस्य ॥ २५२ ॥ तिभावौ; यताः विजितेन्द्रियाः; रौद्रं भयङ्करम् आचरणं ये न स्वीकुर्वन्ति, स्वयं [शिवः प्रियः येषां ते शिवभक्ताः, इति विरोधनिरोधः ॥ २४९॥ [चतुर्भिः श्लेषोपमालंकृतैः तदुपत्यका वर्णयति मूर्तिरिति । वृक्षादीनां नाममात्रेण उक्तौ न कश्चिच्चमत्कारः इति श्लेषोपयोगः, तद्वारा उपमा, तया च वर्णनीयोत्कर्षध्वनिः इति एतादृशस्थलेषु अपि उत्तमकाव्यत्वं ध्येयम् । ] हरिणवती मृगसमजवती, अङ्करूपहरिणवती च । सप्तपत्राख्यविशालत्वङ्नामवृक्षविशेषसंपादितशोभा, [ सप्तपत्रः ‘छितवन ' 'सातवीण ' इति भाषायां प्रसिद्धः वृक्षः, ] सप्ताश्वरूपवाहनकृतशोभा च, ["पत्रं तु वाहने पणे पक्षे च शरपक्षिणोः" इति विश्वः, सरणिः मार्गः, चण्डभाः सूर्यः । ] पलाशिनी [ भाषायां टेटुकाझाड खाखरा वा इति प्रसिद्धः] पलाशवृक्षविशेषराजिता मांसादिनी च । यातुधानो रक्षः [ राक्षसः ] ॥ २५० ॥ मदनो धत्तूराख्यवृक्षविशेषः कामश्च, [ सोत्कण्ठा उत्कण्ठिता नायिका, तल्लक्षणं तु—“ दुर्वारदारुणमनोभवबाणपातपर्याकुलां तरलमानसमुदहन्तीम् । प्रस्वेदवेपथुयुतां पुलकाञ्चिताङ्गीमुत्कण्ठितां वदति तां भरतः कवीन्द्रः ॥” इति । ] तिलकाः क्षुरकाख्यवृक्षविशेषाः ते भूषणस्वरूपा यस्याः; तिलकं विशेषकं, परिभूषा भूषणानि च यस्याः सा । [वासकसजा नायिकाभेदः, तल्लक्षणं तु-" या वासवेश्मनि सुकल्पिततल्पमध्ये ताम्बूलपुष्पवसनैश्च समं ससज । कान्तस्य संगमरसं समवेक्षमाणा सा कथ्यते कविवरैरिह वाससजा ॥"] इति । ] [' धवहरि ' इति पाठे] धवा वृक्षविशेषाः ['धावा' 'धावडो' वा इति भाषायाम् ], धवः पतिश्च प्रकृते च प्रधाना मनुजाः, हरयः सिंहाः [वानरा वा] अश्वाश्च, पीलवो वृक्षविशेषाः [ मकोई ।' पीलुडी' वा इति भाषायां प्रसिद्धा: ] गजाश्च । " पतिशाखिनरा धवा:" इति अमरः । [नरनाथः नृपतिः।] ॥ २५१ ॥ अर्जुनानां [कडाया इति भाषायाम् ] बाणानां वृक्षविशेषाणां [नीलझिण्टी इत्याख्यक्षुपानां 'काली
२५० चन्द्रभासः (गो) । चण्डभानोः (कापा) २५१ वासकशय्येव परिभूषा ( गो २)। तिलककृतशोभा (प) तिलकपरिभूषा (गो)। धवहरिपील (प. गो २)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com