________________
दामोदरगुप्तविरचितं सेक्तुमिवाशाकरिणो विसृजत्ययमवनिधरणपरिखिन्नान् । निर्झरसलिलकणौघान्, भवति हि सौहार्दमेककार्याणाम् ॥२४६॥ हारीताहितशोभो मुदितशुको व्यासरमणीयः । विश्रान्तभरद्वाजः समतामयमेति मुनिनिवासस्य ॥ २४७ ॥ अस्मिन्निःसङ्गा अपि परलोकप्राप्त्युपायकृतयत्नाः। गन्धवहभोजना अपि न हिंसकाः, फलभुजोऽपि न प्लवगाः२४८ शुभकर्मैकरता अपि षट्कर्मण्यो यता अपि स्ववशाः । अनभिमतरौद्रचरिताः शिवप्रिया अपि, वसन्ति शमनिरताः२४९
(युगलकम् ) पष्ठगण एकलघुः, स च न दोषः इति हलायुधकृतछंद:सूत्रवृत्तेः (४।१४) शेयम् । ] ॥ २४५ ॥ समानकार्याणां सौहार्द भवति । अयं भूभृद आशाकरिणः [ दिग्गजाः ] च भूधारणार्थ नियुक्ता इति परस्परमुपकार्योपकारकभावो युक्त एव ॥ २४६ ॥ हारीतशुकभरद्वाजाः पक्षिविशेषाः महर्षिविशेषाः च, [तत्र हारीतः हरियाल हारील इति, शुकः पोपट इति, भरद्वाजः चाटेरकः मर्दुलो वा इति ख्यातः। ] व्यासः विस्तारः, भगवान् कृष्णद्वैपायनश्च । [अत्र श्लोषोपमा।] ॥ २४७ ॥ [ युगलकेन विरोधाभासालंकारद्वारा मुनिनिवासस्थानां शमिनां चर्या वर्णयति अस्मिन्निति । ] अन्यजनसमागमाय यतमामाः कथं निःसङ्गाः; गन्धवहः वायुः तद्भोजनाः सर्पस्वरूपाः कथं न हिंसकाः, तेषां तमःप्रधानत्वेन हिंसास्वभावत्वात् ; आम्रादिफलानि भुञ्जानाः कथं न प्लवगाः वानराः, तेषां फलप्रधानोपजीवनत्वात् इति विरोधः । परिहारपक्षे-परलोकः स्वर्गः, तपोर्थ वायुभक्षाः, तदर्थमेव फलमात्राशिनः, किञ्च क्षीणपुण्यपापस्यैव मोक्षाधिकारित्वात् पुण्यफलं सुखमुपभुञ्जानाः, न च प्लवगाः तद्वदविचार्य कार्यकारिणः इति । [अपिविरोधे]॥२४८॥शुभेति । ये शमनिरताः तपस्विनः, एकस्मिन् शुभकर्मणि रताः प्रसक्ताः निपुणाः, ते कथं षट्कर्मण्याः षटसु कर्मसु साधवो भवन्ति; ये च यताः बद्धाः ते कथं स्ववशाः स्वाधीनाः; येषां रौद्रं रुद्रसम्बन्धि [महादेवसम्बन्धि चरितं अनभिमतं भवति ते कथं शिवस्य प्रियाः भवन्ति इति विरोधः । शुभकर्मैव शुभकमैकं, शुभकमैके शुभादृष्टजनकमात्रे कर्मणि प्रसक्ताः; तथा षटसु अध्ययनाध्यापनयजनयाजनदानप्रतिग्रहाख्येषु कर्मसु साधवः, "तत्र साधु:," "ये चाभावकर्मणोः” इति पाणिनीयाभ्यां यत्प्रकृ
२४७ व्यासयोगर ( प. का) २४९ षट्कर्माणो (प)। श्रिताप्रिया (गो. २ का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com