________________
कुट्टनीमतम् । अत्र तरुशिखरसङ्गतसुमनस इति जातविस्मयो मन्ये । अभिलपति समुचेतुं तारा निशि मुग्धकामिनीलोकः ॥ २४२॥ आश्चर्य यदुपान्ते तिष्ठन्त्येतस्य सप्त मुनयोऽपि । अथवा कस्याकर्ष न करोति समुन्नतिमहताम् ॥ २४३ ॥ अवगम्य निरवलम्बनमम्बरमार्ग पतङ्गतुरगाणाम् । अयमवनिधरो मन्ये विश्रान्त्यै वेधसा विहितः ॥ २४४ ॥ इममाश्रित्य हिमांशोरोषधयः सनिकर्षमुपयाताः ।
प्रत्यासत्तिः प्रभुणा प्रायोऽनुग्राहकवशेन ॥ २४५ ॥ निविशेषैः [यद्वा, गुटिकाञ्जनादिविद्यासिद्धिमद्भिः योगिविशेषैः ] उपसेव्यः शोभितः, पक्षे-तैः [ देवांशकविशेषैः ] सेवितः । [अत्र आर्थी श्लेषोपमा ।] ॥ २४१ ॥ [इतः पञ्चभिः तस्य अत्युच्चत्वं नानाभञ्या वर्णयति ] अत्रेति । कामिनीलोकः ताराः तरुमौलिसङ्गतानि पुष्पाणि [इति] मत्वा समुच्चिचीषति यतोऽसौ मुग्धः बालिशः [मूढः, यद्वा] स्वरूपतो रूपी [प्रशस्तरूपवान् इति, सुन्दरः । ] [अत्र काव्यलिङ्गभ्रान्तिमदुत्प्रेक्षालंकाराः ।] ॥ २४२ ॥ अस्यात्युन्नतत्वात् सप्तर्षयः उपान्तवर्तिन इव उपलक्ष्यन्ते। तदेतत्समर्थनाय अथवेत्यादिना अर्थान्तरितम् ॥ [ यत् एतस्य शिलोचयमात्रस्य अर्बुदाचलस्य, उपान्ते समीपे, सप्त मुनयोऽपि ब्रह्मणः पुत्रत्वेन प्रसिद्धाः तपोबलादिना प्राप्तसर्वोच्चस्थानाः अपि, तभृत्याः इव तिष्ठन्ति तत् आश्चर्य अद्भुतम् , विरुद्धदर्शनात् । ते च " मरीचिरत्रिः पुलहः पुलस्त्यः ऋतुरङ्गिराः । वसिष्ठश्चमहाभाग सप्तैते ब्रह्मणः सुताः ॥ " इत्युक्ताः; पक्षे सप्तर्षिनामा तारासमूहविशेषः, सूर्यमण्डलादपि अत्युच्चैः स्थितः; तत्क्रमस्तु ध्रुवात् पूर्वभागे मरीचिः, ततः क्रमात् सारुन्धतीको वसिष्ठः, अङ्गिराः, अत्रिः, पुलस्त्यः, पुलहः, ऋतु: चेति । पूर्वोक्तमेव अर्थान्तरन्यासेन आक्षिपति अथवेति । आकर्ष समीपानयनम् । अत्र अथवेति आक्षेपवाचकपदसत्त्वात् आक्षेपार्थान्तरन्यासालंकारयोः संसृष्टिः ] ॥ २४३ ॥ अवलम्ब्य निश्चित्य, अम्बरमार्ग आकाशमार्ग, [ पतङ्गः सूर्यः,] [ उत्प्रेक्षया तस्य अत्युच्चत्वं व्यञ्जितम् । ] ॥ २४४ ॥ अस्य अत्युच्चत्वात् तत्संबन्धेन ओषधयः ओषधीशस्य [ चन्द्रस्य] सान्निध्यं प्राप्ता इति अनुग्राहकाधीनतया प्रभुणा सान्निध्यसंपत्तियुक्तैवेति। [ अनुग्राहकः प्रभोः कृपाप्रापको मध्यस्थः, अत्र तादृशः अर्बुदः । अर्थान्तरन्यासोऽलंकारः । अस्यामार्यायां उत्तरार्धे
२४२ मुग्धकामिनीसार्थः ( गो २) २४४ अवलम्ब्य (गो. का) २४५ सनिधानमुपं ( काया)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com