________________
५४
दामोदरगुप्तविरचितं बुध्यन् वश्चकभङ्गीविटकुलटानर्मवक्रकथितानि । बभ्राम सुहृत्सहितः सुन्दरसेनो महीमखिलाम् ॥ २३७॥
(विशेषकम् ) अथ विदितसकलशास्त्रो विज्ञाताशेषजनसमाचारः। निजगृहगमनाकाङ्क्षी स शिलोच्चयमबुंदं पाप ॥ २३८ ॥ तत्पृष्ठदेशदर्शनलोलमति सुन्दरं परिज्ञाय । गुणपालितो बभाषे विलोक्यतामद्रिराज इति ॥२३९ ॥ 'एष सुतः सानुमतः स्यन्दच्छीताच्छसलिलसंपन्नः । लोकानुकम्पयेव प्रालेयमहीभृता मरौ न्यस्तः ॥ २४० ॥ शिशिरकरकान्तमौलिः कटकस्थितपवनभोजनः सगुहः ।
विद्याधरोपसेव्यो बिभर्ति लक्ष्मीमयं शम्भोः ॥ २४१ ॥ वीणा, मुरजः मृदङ्गः।] ॥ २३६ ॥ (वञ्चक )भङ्गीः कौटिल्यविलासान् [कुटिलानां सरणीः] ॥ २३७ ॥ [अथेति, प्रवासेन इत्यध्याहार्यम् । ] समाचार: वृत्तम् । शिलोच्चयं पर्वतं, [ अर्बुदं 'आबु ' इति सम्प्रति प्रसिद्धम् । स च गूर्जरदेश (गुजरात) मरुदेशयोः (मारवाड) सीमाभूतः ] ॥ २३८॥ पृष्ठदेश: पश्चात्तनभागः । लोलमति लालसम् , “ लोलश्चलसतृष्णयोः” इति अमरः ॥ २३९ ॥ [ इतश्चतुर्दशभिः अर्बुदाचलं वर्णयति एष इति । सानुमतः असङ्ख्यशृङ्गत्वात् सानुमान् हिमालयः तस्य सुतः पुत्रः, तदुक्तं सोमेश्वरदेवेन वस्तुपालकारिततत्रत्यधर्मस्थानप्रशस्त्याम्-" गौरीवरश्वशुरभूधरसंभवोऽयमस्त्यर्बुदः ककुदमद्रिकदम्बकस्य । मन्दाकिनी घनजटे दधदुत्तमाओं य: श्यालकः शशिभृतोऽभिनयं करोति ॥ ३० ॥ " इति । ] प्रालेयमहीभृत् हिमगिरिः। [म्रियन्ते प्राणिनः तृष्णया यत्र स मरुः निर्जल: देशविशेषः ‘मारवाड । इति सुप्रसिद्धः । अत उत्प्रेक्षा लोकानुकम्पयेव इति । ] २४० ॥ शिशिरकरकान्तानि चन्द्रकान्तमणय:, मौलिषु शिखरेषु, यस्य; पक्षे-शिशिरकरण चन्द्रेण, कान्तः मनोहरः, मौलिय॑स्य । कटकेषु नितम्बभागेषु [पर्वतमध्यभागेषु, ] स्थिताः, पवनभोजनाः पवनाशिनः तपस्विनो यस्य; पक्षे–कटकस्थाने कङ्कणस्थाने, स्थिताः, पवनभोजनाः सर्पाः यस्य । गुहाभिः गह्वरैः सहितः, पक्षे—गुहेन षडाननेन सहितः । विद्याधरैः देवयो
२३७ वञ्चकवृत्तीः ( कापा) २३८ शिलोच्चयनाथम (प.) शैलोच्चयनाथमर्बुद ( कापा) २३९ लोलमलं (प. कापा) २४० स्यन्दत्स्फीता (कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com