________________
कुट्टनीमतम्।
इति निगदितवति तस्मिन्सुन्दरसेनस्य चोत्तरावसरे । इयमुपगीता गीतिः केनापि कथाप्रसङ्गेन ॥ २३१ ॥ 'निजवरभवनं सुरगृहमुर्वीतलमतिमनोहरं शयनम् । कदशनममृतमभीप्सितकार्येकनिविष्टचेतसां पुंसाम् ' ॥ २३२ ॥ तां च श्रुत्वा सुहृदं पौरन्दरिरिदमुवाच परितुष्टः । मम हृदयगतं प्रकटितमेतेन, सहैव भवतु गच्छामः ॥ २३३ ।। ___ अथ सहचरद्वितीयः क्लेशसमुद्रावतरणकृतचित्तः । निरगात्सुन्दरसेनः कुसुमपुरादविदितः पित्रा ।। २३४ ॥ पश्यन् विदग्धगोष्ठीरभ्यस्यन्नायुधानि विविधानि । शास्त्रार्थानधिगच्छन् विलोकयन् कौतुकान्यनेकानि ॥ २३५ ॥ जानन् पत्रच्छेदनमालेख्यं सिक्थपुस्तकर्माणि ।
नृत्यं गीतोपचितं तन्त्रीमुरजादिवाद्यभेदांश्च ॥ २३६ ॥ [गीतिः आर्याभेदः, तल्लक्षणं तु-" यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीयान्तिमयोगीतिर्हि गायकप्रीत्यै ॥” इति ॥ २३१ ॥ सुरगृहं देवालयः निजभवनतुल्यं सुखदम् । कदशनं कुत्सितं दुष्ठु साधितं भोजनम् । अभीति–इष्ट-सिद्धिपरायणानाम् ॥ अत्र इवादिपदानुपादानेऽपि तदर्थवत्त्वात् लुप्तोपमा व्यङ्गया।] ॥ २३२ ॥ पौरन्दरिः पुरंदराभिधविप्रकुमार: सुन्दरसेनः, [ भवतु तदेव भवतु इत्यर्थः । ] ॥ २३३ ॥ [अविदितः पित्रा, पितरं अपृष्दैव । कुसुमपुरात् पाटलिपुत्रात् ; तत्र 'पाडल' इति प्रसिद्धानां पाटलिद्रुमाणां अत एव पाटलिकुसुमानां प्राचुर्यात् कुसुमपुरं इति पाटलिपुत्रस्य अपरं नाम ॥ २३४ ॥ त्रिभिः प्रवासजातं विशेषज्ञानलाभार्थं वर्णयति पश्यन्निति । गोष्ठी सभा। कौतुकं अद्भुतं अतिशायि वृत्तं वा। ॥२३५॥ [आलेख्यं चित्रकर्म, “ रूपभेदाः प्रमाणानि भावलावण्ययोजनम् । सादृश्यं वर्णिका भङ्ग इति चित्रं षडङ्गकम् ॥ " इति । सिक्थपुस्तकर्माणि-तत्र सिक्थकर्म मधूच्छिष्टेन नानापुत्तलादिक्रीडनकविधानकला, तच्च अन्यत्र चतुःषष्टिकलासु न पृथक् परिगणितम् , पुस्तक्रियायामन्तर्भावात् ; पुस्तकर्म व्याख्यातम् १२४ आर्याटिप्पण्याम् ; यद्वा सिक्थपुस्तं सिक्थेनैव लेप्यकर्म । गीतोपचितं गीतविशिष्टं, न तु शुद्धं । तन्त्री
२३१ °सेनं तथोत्तरा' (प) २३३ तामुपश्रुत्य च ( प ) समुपश्रुत्य च (कापा)। सहैव गच्छावः (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com