SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं न स्थित इह गेहपतिः, किं रटसि वृथा, प्रयाहि देवकुलम् । कथितेऽपि नापगच्छति, पश्य मनुष्यस्य निर्बन्धम् ॥ २२४ ॥ अथ यदि कथञ्चिदपरः पुनःपुनर्याचितो गृहस्वामी । निर्दिशति सावधीरणमत्र स्वपिहीति जीर्णगृहकोणे ॥ २२५ ।। तत्र कलहायमाना तिष्ठति गृहिणी विभावरी सकलाम् । अज्ञाताय किमर्थ वासो दत्तस्त्वयेति सह भर्ना ॥ २२६ ॥ ईदृगयं सरलात्मा किं कुरुषे भगिनि तावको भर्ता । स्थास्यसि गेहेऽवहिता, भ्रमन्ति खलु वञ्चका एवम् ।। २२७॥ इति भाजनादियाबां बुद्धौ विनिधाय निकटवर्तिनो गेहात् । नारीजनः समेत्य ब्रूते तामाप्तभावेन ॥ २२८ ॥ (युग्मम् ) गृहशतमधिकमटित्वा कलमकुलत्थाणुचणमसूरादि । एकीभूतं भुते क्षुधोपतप्तोऽध्वगो भैक्षम् ॥ २२९ ॥ परवशमशनं, वसुधा शयनीयं, सुरनिकेतनं सम । पथिकस्य विधिः कृतवानुपधानकमिष्टकाखण्डम् ॥ २३० ॥ आपन्नः ॥ २२३ ॥ [रटसि उच्चैः वदसि, वृथा निष्फलम् । ] देवकुलं देवमन्दिरम् । निर्बन्धः आग्रहातिशयः ॥ २२४ ॥ [ सावधीरणं सतिरस्कारम् । ] ॥२२५॥ सकलां विभावरी–अत्र अत्यन्तसंयोगे द्वितीया, तेन क्षणैकमपि कलहतो न अतिचार:, ततः प(त? )त्रागारेऽपि न स्वापोपलब्धिः इति । अज्ञाताय इत्यनेन मुख्यं कलहे कारणं प्रदर्शितम् ॥ २२६ ॥ अवहिता सावधाना । [वञ्चकः धूर्तः । ] ॥२२७॥ [आप्तः यथार्थवक्ता । ] ॥ २२८ ॥ [ अटित्वा भ्रान्त्वा । कलम: शालिः, कुलत्थ: धान्यविशेष: ' कलथी । इति भाषायाम् । ] अणुः व्रीहिविशेषः, [चीना इति ख्यात: इति अमरसुधा।] [मसूरः व्रीहिभेदः। अध्वगः पथिकः।] भैक्षं मिक्षासमूहरूपम् ॥२२९॥ शयनीयं शय्या । सुरनिकेतनं देवमन्दिरम् । उपधानकं उपधीयते आरोप्यते शिरोऽत्र इति उपधानकं उच्छीर्षकम् , [इष्टका ईट इति भाषायाम् । ] ॥ २३० ॥ २२५ शीर्णगृह (प. कापा) २२७ किं कुर्मो (गो. ५) २२८ भोजनादि (गो २. कापा) । नारी समभ्युपेता ( प. कापा) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy