SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं 'देशान्तरेषु वेषस्वभावभणितानि ये न बुध्यन्ते । समुपासते न च गुरून् विषाणविकलास्त उक्षाणः॥ २१२ ॥ आकर्ष्याथ तमूचे वचनमिदं सुन्दरः सुहन्मुख्यम् । शोभनमेतद्वीतं गुणपालित साधुनाऽनेन ॥ २१३ ॥ साधूनामाचरितं खलचेष्टां विविधलोकहेवाकान् । नर्म विदग्धैर्विहितं कुलटाजनवक्रकथितानि ॥ २१४ ॥ गुरुगूढशास्त्रतत्त्वं विटवृत्तं धूर्तवञ्चनोपायान् । वारिधिपरिखां पृथ्वी जानाति परिभ्रमन् पुरुषः ॥ २१५ ॥ (युगलकम् ) अत उज्झित्य गृहस्थितिसुखलेशं विविधलाभपरिणामे । स्थापय गमनारम्भे वयस्य हृदयं मया सहितः ॥ २१६ ॥ इत्थं निगदितवन्तं सुहृदुत्तरलाभलालसात्मानम् । ऊचे सुन्दरसेनं लजित इव सहचरो वचनम् ॥ २१७ ॥ 'अभ्यर्थनानुबन्धो लज्जाकर एव मादृशां किन्तु । आकर्णय कथयामः पथिकानां यानि दुःखानि ॥ २१८॥ सहसा अकस्मात् ॥ २११ ॥ भणितानि सरसोक्तयः । विषाणविकलाः शृङ्गविहीनाः, उक्षाणो वृषभाः । [अत्र न्यूनाभेदरूपकालंकारः । ] ॥ २१२ ॥ २१३ ॥ [ युगलकेन प्रवासलाभानाह साधूनामिति । ] हेवाकः उत्कण्ठा [ अभिलाषो वा]। नर्म [अग्राम्यः] परिहासः । [कुलटा असती, वक्रकथितं व्यङ्गयोक्तिः।] ॥२१४॥ [गुर्विति—गुरौ गूढं गुरुगम्यं गुरुणैव प्रकाश्यं यत् शास्त्रतत्त्वं रहस्यम् । विटवृत्तं कामतन्त्रकोविदानां चरितम् । वारिधिपरिखां समुद्रखेयाम् । ] ॥ २१५ ॥ गृहस्थितौ संजायमानं सुखस्य लेशं लवं, उज्झित्य । विविधो लाभो यस्मिन् तादृशः परिणामः फलावस्था यस्य तस्मिन् गमनारम्भे इति ॥ २१६ ॥ [सुहृदुत्तरेति मित्रोत्तराभिलाषिणम् । लजित इव मन्दमन्दं इत्यर्थः । ] २१७ ॥ अभ्यर्थनानुबन्धो यद्भवतोक्तं तदनुकूलवाक्यपरम्पराप्रयोगः ॥[यद्वा अभ्यर्थनायाः प्रार्थनायाः, अनुबन्धः २१३ स ऊचे (गो. कापा) २१४ लोकविन्यासान् ( कापा ) २१५ गुरुगूढशास्त्रचर्चा (4) गुरुगेहशास्त्रचर्चा (गो२.) गुरुगहशास्त्रचर्यो ( कापा) २१६ अत उत्सृज्य (प. कापा) २१७ सुहृदुत्तम (प.) २१८ कथयामि च ( कापा) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy