________________
कुट्टनीमतम् । यो विनयस्य निवासो, वैदग्ध्यस्याश्रयः, स्थितेः स्थानम् । प्रियवाचामायतनं, निकेतनं साधुचरितस्य ॥ २०७॥ यो मदनः प्रमदानां, तुहिनकरः साधुकुमुदखण्डस्य । निकषोपलो गुणानां, मार्गतरः पथिकलोकस्य ।। २०८ ॥ सज्जनगोष्ठीनिरतः, काव्यकथाकनकनिकषपाषाणः । प्रणयिजनकल्पवृक्षो, लक्ष्मीलीलाविहारभूमिश्च ॥ २०९ ॥
जलधिरिव तुहिनभासः सहदृद्धिपरिक्षयः सुहृत्तस्य । सकलोपधाविशुद्धो बभूव गुणपालितो नाम्ना ॥ २१०॥
तेन समं स कदाचित् तिष्ठन् रहसि प्रसङ्गतः पतिताम् ।
केनापि गीयमानामशृणोदार्यामिमां सहसा ।। २११ ॥ तित्वं माधुर्य, हिमांशुः चन्द्रः । अचल: पर्वतः, स्थैर्य “धर्मार्थकामसंयुक्ताच्छुभाशुभसमुस्थितात् । व्यवसायादचलनं स्थैर्यमित्यभिसंज्ञितम् ॥” इति भरतोक्तम् (२२।३५)। उन्नतत्वं उच्चैरवस्थानम् । गाम्भीर्य “ यस्य प्रभावादाकारात्क्रोधहर्षभयादयः । भावस्था नोपलभ्यन्ते तद्गाम्भीर्यमिति स्मृतम् ॥” इति भरतोक्तम् (२२ । ३६)।] यादसां [जलानां ] पति: समुद्रः । [अत्र उपमालङ्कारो व्यङ्गयः।] ॥ २०६ ॥ [ विनयः महाजनसन्निधौ स्वोत्कर्षाननुसन्धानरूपा नम्रता। वैदग्ध्यं चातुर्यम् । स्थिति: न्याय्यपथ स्थितिः, " संस्था तु मर्यादा धारणा स्थितिः ।" इति अमरः । प्रियवाक् हृद्यवचनम् । साधुचरितं सत्कर्म ।] ॥२०७॥ [तुहिनकरः शीतगुः चन्द्रः । मार्गे स्थितः तरुः मार्गतरुः। अत्र मालारूपकम्।] ॥२०८॥ [गोष्ठी सभा । निरतः आसक्तः । काव्यं पद्यमयं, कथा गद्यमयी, तत्परीक्षाकर्मणि कुशलः । प्रणयिजनः प्रेमपात्रीभतः याचको वा। लक्ष्मीः रूपगुणादिप्रकारा सर्वविधा लक्ष्मी: शोभा, तस्या लीलायै खेलार्थ, विहारभूमिः विनोदाय भ्रमणस्थानम् । [ एताभिः नवभि: आर्याभिः सुन्दरसेनस्य अनेकगुणसम्पत्तिवर्णनेन तस्य उत्तमनायकत्वं व्यञ्जितम् । तथा च दशरूपके-" नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्मी रूढवंश: स्थिरो युवा ॥ (२।१) बुद्धयुत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥" (२।२) इति । प्रकृते ते यथायथमूह्याः ॥२०९॥ [तन्मित्रं नायकसहायं एकेन वर्णयति जलधिरिति । सकलासु उपधासु शीलादिपरीक्षोपायेषु, परीक्षया विशुद्धः शीलादिसंपन्नतया परिज्ञातः। “उपायपूर्व आरम्भ उपधा” इति अमरः ॥२१०॥ [रहसि एकान्ते।
२०७ श्रयस्थितेः (१) २०९. कथासार (प. कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com