________________
कुट्टनीमतम् ।
यस्यान्वये महीयसि सरसीव समस्तसच्वनिजवसतौ । सच्चरित जन्मभूमौ विनिवारितकलिमलप्रसरे ।। १९७ ॥ पितृतर्पणप्रसङ्गे खड्गग्रहणं न शौर्यदर्पेण ।
त्रुटनं मेखलिकानां बटुकजने, नो रताभिसंमर्दे ॥ १९८ ॥ श्रुतिभेदेषु विवादो, नो रिक्थविभागमन्युना कलितः । तेजस्विता हविर्भुजि, न शमैकरतेषु भूमिदेवेषु ॥ १९९ ॥ जरतामेव स्खलनं, जपतामेवाधरस्फुरणम् । यजतामेव समिदुचिरेंणाजिन एव कृष्णसंपर्क: ॥ २०० ॥ तस्याभूत् सकलकलोद्भासितपक्षद्वयस्य सुत एकः । नाम्ना सुन्दरसेनः कच इव वचसामधीशस्य ॥ २०१ ॥ कारः।] ॥१९६॥ सत्त्वं गुणः, सत्त्वाः प्राणिनः च; ते च जलाश्रयेण तिष्ठन्ति, [ इति श्लेषोपमा । ] ॥ १९७ ॥ [ इत: त्रिभिः श्लोकैः परिसंख्यालंकारद्वारा तद्वंशस्य अन्येभ्यो व्यतिरेकः उत्कर्षश्च सूच्येते । ] खङ्गस्य [ गण्डकस्य गेंडा इति भाषायां प्रसिद्धनाम्नः प्राणिनः, तत्र उद्भिन्नशृंगिणः खड्गाः, त एव बाला: गण्डाः इति विवेकः, तस्य खड्गस्य शृङ्गेण निर्मितपात्रस्य ] खङ्गपात्राख्यद्रव्यविशेषस्य शृङ्गादिखङ्गस्य वा ग्रहणं, केषुचित् तत्समयेषु [ पितृतर्पणे वा ] तद्ब्रहणनियमात् ; न तु शौर्याभिमानेन शस्त्रप्रहणम् । मौञ्जीनां मेखलानां जीर्णतावस्थासु, बटुकजने ब्रह्मचारिजने, त्रुटनं भङ्गः; न तु सुरतसंमर्दप्रसङ्गे रशनानाम् [ अनेन तद्वंश्यानां वशित्वं सूचितम् । ] ॥ १९८ ॥ श्रुतिभेदेषु वेदाक्षरविपर्यासादिषु, विवादः प्रमाणनिर्वचनादिरूपः शास्त्रार्थः; न तु वित्तविभागग्रहणार्थं क्रोधान्धतया राजद्वारे व्यवहारः । [ " रिक्थमृक्थं धनं वसु " इति अमरः । ] तेजस्विता प्रकाशनशीलता कोपाक्रान्तिश्च; [ शमः अन्तरिन्द्रियनिग्रहः, ] भूमिदेवा ब्राह्मणाः ॥ १९९ ॥ जरतां वृद्धानामेव, वयः कृतं स्खलनं पादादीनां; न तु सर्वेषां शास्त्रादिषु अपभ्रंश: । जपशीलानामेव, मन्त्राक्षरोपांशुच्चारणे अधरोष्ठस्फुरणं, न तु रोषावेशतः । यागशीलानामेव, समिद्रुचिः समिधां तत्रोपयोगात् ; न तु प्रजानां वैमनस्यादिना, समिति युद्धे, रुचिः; " इध्ममेधः समित् स्त्रियाम्, " " समित्या जिसमिद्युधः ” इत्युभयत्र चामरः । मृगाजिने कृष्णस्य श्यामताया: रोमसु संबन्धो, न तु जनाचरिते श्यामिकासम्पर्कः ॥ २०० ॥ [ इतो नवभिः तत्सुतस्य
१७
१९८ दर्पं च ( प. का ) १९९ मन्युना जनित: ( 9 ) । विभागजनितमन्यूनाम् ( कापा ) २०० लनं पठतामेवा ( कापा )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com