________________
है।
दामोदरगुप्तविरचितं न्यकृतवृष इति शर्वे, याचक इति कौस्तुभाभरणे । पीडितवसुधासुत इति कपिले, न बभूव यस्य बहुमानः॥१९५॥ मार्गानुगतौ लुब्धो यः प्राणिवपुर्विनाशविमुखोऽपि । परिहतपरदारोऽपि स्वाकासितगुरुजनप्रमदः ॥ १९६ ॥
हरिनाभिपङ्कजभूः ब्रह्मा । तत्तुल्यसत्यादिशीलत्वात् तान् जहास । [ अत्र हसतेः सादृश्यसूचकत्वात् आर्थी मालोपमा ॥ वस्तुतस्तु, सत्यत्वेन प्रसिद्धः युधिष्ठिरः अश्वत्यामनामकहस्तिवधे एकदा “नरो वा कुञ्जरो वा' इतिरूपं अर्धसत्यं उवाच, कामदाहकः शिवः पार्वती अर्धाङ्गीकृतवान् , संयमी ब्रह्मा स्वपुत्रीं सरस्वती कामितवान् इति स्वधर्मे तेषां खलनैः तान् जहास, स्वस्मिन् तादृशस्य एकस्यापि स्खलनस्य अभावात् इति व्यतिरेकध्वनिः ॥1॥ १९४ ॥ न्यकृतः पीडितः, आरोहार्थ अधः कृतश्च, वृषो धर्मो नन्दीश्वरश्च; [शर्वः शिवः । ] कौस्तुभाभरणो नारायणः, स हि [वामनस्वरूपेण ] बलिं वसुधां याचितवान् , अयं तु न याचक इति । कपिलो नारायणावतारो मुनिसत्तमः; [ यद्वा कपिल: इन्द्रः " कपिल: कपिलो वर्णः कपिल: पाकशासनः । " इति वैजयन्ती । ] कदाचिदिन्द्रो मखसम्बन्ध्यश्वमपहृत्य तत्समीपे बबन्ध, तमन्वेषमाणाः सगरात्मजा वसुधां न्यखनन् , तत्समीपेऽश्वं दृष्ट्रा तमेवापहर्तारं शङ्कमानाः तत्क्रोधदृष्टया भस्मीभूताः इति पौराणिकी कथा।[तथा च श्रीरामायणे बालकाण्डे-"तस्य कोपामिना दग्धा भविष्यन्ति नृपात्मजाः ॥ ३ ॥ पृथिव्याश्चापि नि दो दृष्ट एव सनातनः । सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ॥ ४ ॥ " (सर्ग ४० ) इति । ] तथा च वसुधा सगरसुताश्च तेन पीडिताः, अयं तु न तथा इति तत आधिक्यम् । यद्वा, वसुधासुतो मङ्गलग्रहः, मङ्गलेन च सुखं लक्ष्यते; तथा च तेन सुखस्यापि ज्ञानिनां परिहरणीयताभिधानात् कथञ्चित् प्रतिपाद्यनिष्पत्तिः । शब्दमात्रसाम्येऽपि तत्त्वव्यवहारस्य साहित्यमर्यादासिद्धत्वात् केवलं बुद्धिपाटवेन तेभ्य आधिक्यं प्रतिपादितम् । [ अत्रापि पूर्ववत् आर्थी मालोपमा व्यतिरेकध्वनिश्च । ] ॥१९५ ॥ मार्गस्य मृगसमूहस्य, वेधार्थ अनुगमने, लुब्धो व्याधः; पक्षे मार्गस्य सदाचारस्य आचरणे समासक्तः । [प्राणिनां सजीवानां वपुषां देहानां विनाशः हिंसा । ] स्वाकासिताः [स्वेन] अभिलाषविषयीकृताः, गुरुजनानां, प्रमदाः स्त्रियः, येन; परिहारे-स्वाकासितः [स्वेन] आशंसितः, गुरुजनानां, प्रमदः हर्षों येन, गुरुभक्तत्वात् ॥ [ अत्रापि श्लेषमूलको विरोधालं
पंकजभुवो जितेन्द्रियत्वं (कापा ) १९६ मार्गानुसृतौ (प. कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com