________________
कुट्टनीमतम् । भुजगाः पररन्ध्रदृशः, खण्ड्यन्ते प्रियतमाधरा यत्र । सूचीब्यथानुभूतिनृत्याभ्यासप्रवृत्तानाम् ॥ १९१ ।। नतवपुरप्यतिसरला, मन्थरगमनाऽपि नर्मदा यस्मिन् । गुरुजनशास्त्ररताऽपि स्वभावमुग्धाऽङ्गानाजनता ॥ १९२ ॥
तस्मिन्मखशतपूतः पुरुहूत इव द्विजन्मनां प्रवरः । गुरुरिष विद्यावसतिर्वसति स्म पुरन्दरो नाम्ना ॥ १९३ ।। धर्मात्मजस्य सत्यं, त्रिपुररिपोर्विजितकुसुमचापत्वम् ।
हरिनाभिपङ्कजभुवो नियतेन्द्रियतां जहास यः सततम् ॥१९४॥ लसहचारी । “ तरलो हारमध्यगः” इत्यमरः ॥१९०॥ रन्धं सुषिरं, तद्दर्शिन: सर्पाः, न तु केचन कस्यचित् प्रमादत: सदाचारस्खलनप्रदर्शिनः । अधराः ओष्ठाः, रतौ दन्तैः खण्ड्यन्ते [ दश्यन्ते ], न तु केचन निराक्रियन्ते । सूच्याम् आङ्गिकाभिनयविशेषे, व्यथायाः शिक्षणव्यथायाः, अनुभवः, तत्र प्रवृत्तानां, न तु सूचीतुल्यपापकणिकादुःखानुभव: कस्यचित् । “ सूची तु सीवनद्रव्येऽप्याङ्गिकाभिनयान्तरे । " " स्त्री सूचिर्तृत्यभेदे च व्यधनीशिखयोरपि ।" इति मेदिनीरत्नकोशौ।। नत्ये पदार्थानां आङ्गिकाभिनये या करवर्तना (करचालनं) भावि वाक्यं उपजीव्य प्रक्रियते सा भाव्यर्थसूचनात् सूची, तदुक्तं सङ्गीतरत्नाकरे-“ वर्तना सा भवेत् सूची भाविवाक्योपजीवनात् ।" (७ । २७ ) इति । नृत्यलक्षणमपि तत्रैव-" आङ्गिकाभिनयैरेव भावानेव व्यनक्ति यत् । तन्नृत्यं मार्गशब्देन प्रसिद्ध नृत्यवेदिनाम् ॥ " ( ७ । २८ ) इति । नृत्यस्यैव मार्ग इत्यपरं नाम । नृत्तं तु अभिनयवर्जितं गात्रविक्षेपमात्रम् ॥ ] ॥ १९१ ॥ नतवपुः निम्नोन्नतशरीरा, अपि, सरला ऋजुः, अपिः विरोधे; अर्थान्तरे नतवपुः सुशोभनलक्षणाङ्गविन्यासवती । मन्थरं मन्दं गच्छति सा, कथं नर्मदा तन्नामसरितः तीव्रप्रवाहत्वात् इति; अर्थान्तरे नर्मदा परिहासप्रवीणा इत्यर्थः; “ द्रवकेलिपरीहासाः क्रीडा ली(खे)ला च नर्म च ।" इति अमरः । गुरुजनानां शास्त्रेषु यद्वा, गुरुजनेषु शास्त्रेषु च, 1 रता प्रीताऽपि, कथं मुग्धा बालिशा, अर्थान्तरे मुग्धा सुभगा; “ मुग्धः सुन्दरमूढयोः" इति कोशः । गुरवः श्वशुरादयोऽपि, शानं शासनमपि । [अङ्गनाजनता ललनासमूहः । विरोधालंकारः श्लेषमूलकः । ] ॥ १९२ ॥ [उपाख्याननायकस्य पितरं अष्टकेन वर्णयति तस्मिन्निति । 1 मखो यज्ञः, शतं बहुसंख्या । पुरुहूतः इन्द्रः । पक्षे शतं शतसंख्या, [ शताश्वमेधी इन्द्रपदं प्राप्नोति इति । ] [ द्विजन्मनां ब्राह्मणानाम् ] । गुरुः बृहस्पतिः ॥ १९३ ॥ धर्मात्मजो युधिष्ठिरः । त्रिपुररिपु शिवः ।
१९२ मर्मदा (प)। भावसुभगा (कापा) १९३ प्रथमः (कापा) १९४ चरितेन Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com