________________
दामोदरगुप्तविरचितं स्तनजघनचिकुरभारे घनता जीवेशसहजरागे च । कुलदेवतार्चनविधौ बलिशोभा मध्यभागे च ॥ १८७ ॥ गम्भीरता स्वभावे चेतोभवबाणतूणनाभौ च । विस्तीर्णता नितम्बे गुरुजनपूजानुरक्तचित्ते च ॥ १८८ ॥ हरिणायतेक्षणानां विच्छित्तिः, कोशहरणमस्त्रेषु । कुटिलत्वमलकपतो, बालानां कामचेष्टितं यत्र ॥ १८९ ॥ संयमनमिन्द्रियाणामिनोपघातग्रहस्तमिस्रस्य ।
स्तब्धत्वं तालतरौ, हारलतास्तरलसङ्गता यस्मिन् ॥ १९० ॥ क्षयाऽत्र एकवचनम् । [ इत: १९१ आर्यापर्यन्तं पूर्ववत् परिसंख्यालंकारः, प्रायः श्लेषमूलकः । ] ॥ १८६ ॥ घनता निबिडत्वं सान्द्रत्वं च । [ जीवेशसहजरागे प्राणप्रिये नैसर्गिकप्रीत्याम् । ] बलिः उपहरणीयद्रव्यम् , बलयस्त्रिवलयः । [ मध्यभागः कटिः ] ॥ १८७ ॥ गम्भीरता गूढता निम्नता च । चेतोभवस्य बाणानां तूणः इषुधिः-तत्स्वरूपे तदुपमे इत्यर्थः नाभौ तुन्दकूपिकापदवाच्याङ्गविशेषे । नाभेः उद्दीपकत्वात् कामबाणेषुधित्वरूपणम् । विस्तीर्णता विशालता, विपुलभक्तिशालिता च ॥१८८॥ हरिणेति । हरिणस्य आयते दीर्घ ईक्षणे इव ईक्षणे यासां तासाम् । [ अनेन हरिणाक्षी इति लुप्तोपमायां आयतत्वं समानधर्मत्वेन कविसम्मतं इति बोध्यम् । ] विच्छित्तिः शोभातिशयः, न तु अन्यत्र अन्तःकरणादीनां विच्छेदः खण्डनम् । कोशस्य शम्राधानस्य हरणं शस्त्रतः पृथक् स्थापनं, न तु अन्यधनापहारः । कुटिलत्वं वक्राकारत्वम् अलकेषु, न तु अन्यत्र खलत्वम् । कामचेष्टितं यथेष्टं क्रीडा, बाल्यावस्थायाः तत्प्रधानत्वात् , [बालानां शिशूनां, ] न तु जनानां [ यथेच्छाचारः; ] यद्वा वालानां स्त्रीकेशानां कामोद्दीपकत्वं इत्यर्थः ॥ १८९ ॥ संयमनं विषयेभ्यो निग्रहः, न तु अपराधे बन्धः । इनः सूर्यः, [ तदुपघातः ] तदवरोधः तदाच्छादनं, तद्रूपो ग्रहः उपरागः, तमिस्रस्य राहोः, न तु स्वामिप्रातिकूल्याचरणाग्रहः कस्यचन । “ इनः सूर्ये प्रभौ” इति, “ उपरागो ग्रहः” इति च अमरः । स्तब्धत्वं सरलप्रांशुत्वं, तालतरौ, न तु अन्यत्र प्रतिकूलवृत्तिः, [ पक्षे स्तब्धत्वं भयविषादादिजन्यं निश्चेष्टत्वम् ।] तरलेन मध्यनायकेन [ मध्यमणिना, सङ्गताः ] सहिताः, हारलताः, न तु कश्चन चञ्च
१८७ पीनपयोधरभारे (प. कापा)। मध्यदेशे ( कापा) १८९ हरणमब्जेषु (प. कापा) १९० सालतरौ (प. गो २)। लता त (प. गो २)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com