________________
कुट्टनीमतम् ।
तिमिरपटलासिताम्बरमपहरदभिसारिकाजनौघस्य । निजतनुकान्तिवितानं वल्लभसंभोगविहितये यत्र ।। १८४ ॥ यत्र नितम्बवतीनां विचलनयनान्तशितशरैव्रणितः । शिथिलयति पथिकलोकः स्वकलत्रसमागमोत्कण्ठाम् ॥ १८५॥ यत्र च कुलमहिलानामल्पत्वं वचसि पाणिपादे च ।
स्वच्छत्वमाशयेषु व्यालोलविशालनेत्रे च ॥ १८६ ॥ इति साभिप्रायत्वात् काव्यलिङ्गालंकारश्च ] ॥ १८३ ॥ तिमिर इत्यादि-निजतनोः [ कान्तातनोः ] कान्तेः, वितानं [ विस्तारः ] समूहः कर्तृ, [ “ मन्मथोन्मेषणा शोभा विस्तृता कान्तिरुच्यते ।" इति कान्तिः, ] तिमिरपटलं [ एव] असिताम्बरं [ कृष्णवर्णाशुकं ] कर्म, प्रियसंभोगस्य विहितये विधानाय, तत्साहाय्येन निःशङ्क सङ्केतगमनादिसिद्धेः इति भावः । [ तनुकान्तिः रात्र्यन्धकारे मार्गदर्शिका भवति इत्यर्थः । अभिसारिका-" उद्दाममन्मथमहाज्वरवेपमाना रोमाञ्चकण्टकितगात्रलतां वहन्ती । नि:शङ्किनी व्रजति या प्रियसङ्गमाय सा नायिका निगदिता त्वभिसारिकेति ॥” इति भरतकारिकायां लक्षिता। 'विहतये । इति पाठे तु कान्तिना अन्धकारावरणनाशे प्रियगृहं प्रकाशं गन्तुं न पार्यते अतः वल्लभसंयोगाभावरूपं अनिष्टं जायते इति भावार्थः । अस्मिन् पाठे कान्तिगुणस्य दोषत्वकल्पनात् लेशालंकारः । मूलपाठे तु वल्लभसंभोगकार्यस्य स्वतनुकान्त्यैव सौकर्यात् समाधिः अलंकारः । ] ॥ १८४ ॥ [ शित: तीक्ष्णः, ] व्रणित: आहतः । स्वकलत्राणि स्वस्त्रियः । तथा च तासामेव नितम्बवतीनां वश्य: पान्थलोकः संपद्यते इति भावः ॥ १८५ ॥ [ इत: त्रिभिः अल्पत्वस्वच्छतादय: केचन गुणाः न केवलं शरीरे एव, अपि तु तन्मानसेऽपि इति तासामुत्कर्षों ध्वन्यते । ] वचसि अल्पत्वेन वाचाटत्वाभावबोधनपूर्वकं वाग्मित्वं, पाण्योः पादयोश्चाल्पाकारत्वेन सौलक्षण्यं प्रतिपाद्यते । [ पाणिपादे इत्यत्र] प्राण्यङ्गत्वादेकवद्भावः । ' आशये च ' इति [पाठे] अत्र चोऽप्यर्थे, तथा च अन्त:करणे सर्वत्र च निष्कलङ्कत्वं, न तु बहिः सदाचारदर्शनेऽपि कुटिलाशयत्वम् । 'विशालनेत्रे च ' इत्यत्र ‘च ' एवार्थे, तथा च लोचनयोरेव विशालत्वं, तेनान्यत्र चाञ्चल्यं वार्यते । “ स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण" इति वामनोक्तौ [काव्या. सू० ५। १ । १७ ] 'प्रायेण ' इत्युक्तत्वात् जातिविव.
१८४ विहतये (कापण) १८५ विगलन् (प)। नयनांशु (प. कापा) १८६ शये च व्यालोलत्वं विशा (गो. का.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com