________________
दामोदरगुप्तविरचितं तिष्ठन्तु सकलशास्त्रव्यालोकनविमलबुद्धयो विप्राः । सदसरणनिर्णीतौ ललना अपि निकषभूमयो यत्र ॥ १८१ ॥ कलिकालोदितभीत्या ऋतुहुतवहधूमकम्बलावरणः । तिष्ठन्निभृतोऽपि षश्चरितैरनुमीयते यत्र ॥ १८२ ॥ अपहरति पिधातुमिव स्वकला शशधरः प्रसार्य करान् ।
रात्रौ यत्र वधूनां लावण्यं वदनकोशेभ्यः ॥ १८३ ।। " लमासुरविवरपिशाचेन" इत्यस्यार्थः उन्नेयः । ] कटकं मध्यभागः, [गन्धर्वैः गायकैः । ] हरिनगरं हरिद्वारनगरं, [यद्वा रामाभिधानस्य हरेः नगरं अयोध्या, तत्रैव बहुभिः सूर्यवंश्यै राजभिः कृतासंख्ययज्ञत्वात् ; ऋतुयूपः क्रत्वर्थ यज्ञार्थ यूपः यज्ञियपशुबन्धनार्थ दारुनिर्भित: कोलविशेषः । शम एव विभवः धनं येषां ते शमविभवाः मुनीन्द्राः तैः, मुनिजनस्थानं बदरिकाश्रमः ॥ अत्र श्लोकद्वये विविधारोपात् मालारूपकं, प्रस्तुतनगरं च पातालतलादि कथं भवतीति विरोधालंकारः, प्रस्तुतस्य नानाविधसमृद्धिमत्त्वख्यापनपरिणामाच व्यङ्गय उदात्तालंकारः ] ॥ १८० ॥ [ निकषः सुवर्णादिकषपाषाणः । ] निकषभूमय: परीक्षणस्थानानि [ इत्यर्थः । ] [ अत्र आक्षेपालंकारो व्यंग्यः उक्तार्थस्य प्रतिषेधाभावात् ॥ कालिदासोक्तिस्तु-" तं सन्तः श्रोतुमर्हन्ति सदसद्वयक्तिहेतवः । हेम्नः संलक्ष्यते ह्यनौ विशुद्धिः श्यामिकाऽपि वा ॥ ॥ इति रघुवंशे ( १ । १०)] १८१ ॥ ऋतु इत्यादि-यज्ञीयवैश्वानरधूम एव कम्बलतुल्यं आवरणं प्रावारो यस्य, ततश्च कलिना द्रष्टुमपि अशक्य इत्यर्थः । निभृत: गुप्तः । वृष: धर्मः । चरितः अनुमीयते—धर्मः स्वरूपतोऽदृश्योऽपि कलिभीत्या मन्ये यशीयधूमाच्छन्नः सम्पन्नो निभृतश्वरति, जनसदाचारैश्च निश्चीयते । तत्रत्याः सर्वे धार्मिकाः इत्यर्थः। [अत्र व्यंग्योत्प्रेक्षारूपकालंकाराभ्यामनुप्राणित: अनुमानालंकारः। न च अनुमानस्य अनलंकारत्वं शङ्कनीयम् , कविप्रतिभोत्थापितस्य शब्दार्थरचनावैचित्र्यस्य वक्रोक्त्यपरनाम्न एव काव्यालंकारबीजभतत्वात् । शास्त्रीयानुमाने तु न वैचित्र्यस्य अवकाश:। काव्येषु एतादृशस्थलेषु विशेषेण अलंकारान्तरेण प्रयोजितेषु अनुमानेषु तत्सत्त्वं स्फुटमेव ॥] १८२ ॥ [ पिधातुं अपवरितुम् । ] करा: किरणाः हस्ताश्च । ["मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥” इति लक्षितं रसार्णवसुधाकरे । कोश:, कोष इति मूर्धन्यान्तोऽपि अयं, अर्थसङ्ग्रहः । अपहरति इव इत्यन्वयः । अत्र श्लेषमूलिका क्रियोत्प्रेक्षा । रात्रौ निशि, सा च चौर्यानुकूलसमयरूपा
__ १८१ शुद्धबुद्धयो ( कापा ) १८२ ऋतुहुतबहुधूम (प)। तोऽपि कृतश्च (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com