________________
कुट्टनीमतम्।
अश्रेयोभिरनाश्रितमंभिभूतं नाभिभूतिदोषेण । न स्वीकृतमुपसर्गः, कलिकालमलैरनालीढम् ॥ १७८॥ पातालतलं भोगिभिरम्भोधिर्विविधरत्नसंघातैः । मुरसदनं विबुधगणैर्द्रविणोपचयैः पुरं कुबेरस्य ॥ १७९ ॥ महिलाभिरसुरविवरं' कटकं हि हिमाचलस्य गन्धर्वैः ।
हरिनगरं क्रतुयूपैः, शमविभवैमुनिजनस्थानम् ॥ १८० ॥ प्रतिच्छन्दो हि कारणम् ॥” इति । ] [ विश्वकर्मा सुराणां शिल्पी, शिल्पं च भालेख्यं लेख्यं दारुकर्म चितिकर्म पाषाणकर्म रौप्यकर्म देवकर्म चित्रकर्म इति भेदैः अष्टविधम् । ] ॥ १७७ ॥ [ अश्रेयः अमङ्गलम् । अभिभूतिः पराभवः । ] उपसर्गः उत्पातैः, “ अजन्यं क्लीब उत्पात उपसर्गः समं त्रयम् । " इति अमरः । [ मलम् दोषः, ] अनालीढम् अस्पृष्टम् अव्याप्तम् ॥ १७८ ॥ [ इतो द्वाभ्यां हेतुरूपकालंकारमुखेन तन्निवासिनः तत्समृद्धिं च वर्णयति पातालेति । ] भोगिभिः इत्यादौ उपलक्षणे तृतीया, तथा च तत्सहितं पातालतलम् इत्याद्यर्थः । [ भोगिभिः विलासिभिः, पक्षे सर्पः । सुरसदनं अमरावती, “ विबुधः पण्डिते देवे " इति विश्वलोचनः । कुबेरस्य पुरं अलका।] ॥ १७९ ॥ महिलाभिः [ मह्यन्ते पूज्यन्ते कामिजनेन इति, महेला इत्यपि शब्द:, ताभिः ] अङ्गनाभिः । असुरविवरं अतलं भूविवरविशेषः, [ अतलादिषु सप्तसु अपि पातालेषु प्रत्येकं ' पुरसहस्राणि नागदानवरक्षसाम् ', तेषु असुरवर्गवसतिप्रवेशार्थों भूगर्भमार्गः असुरविवरं, तत्तत्पुरेषु च महिलानां सुन्दरीणामेव प्राचुर्यम् । अत एव हर्षचरिते चतुर्थोच्छासे चक्रवर्तिदर्शनार्थ आगच्छन्ति सामन्तान्तःपुरसहस्राणि “ असुरविवराणीव अपावृतानि :' इत्युत्प्रेक्षितं भट्टबाणेन । पुनश्च स एव तत्र षष्ठे गजाध्यक्षस्कन्दगुप्तविज्ञप्तौ प्रमाददोषाभिषङ्गोदाहरणेषु-" असुरविवरव्यसनिनं चापजन्हुरपरिमितरमणीमणिनूपुरझणझणालादरम्यया मागधं गोधनसुरुङ्गया स्वविषयं मेकलाधिपमन्त्रिणः । ॥ इति । एतदाद्यनुसारणे ' असुरविवर ' शब्दः तत्रतत्र व्याख्येयः; यथा तत्रैव प्रथमे बाणसुहृत्सहायपरिगणने “ असुरविवरव्यसनी लोहिताक्षः," इति, तृतीये च स्थाण्वीश्वराख्यजनपदवर्णने-" असुरविवरमिति वातिकैः, शाक्याश्रम इति शमिभिः, " इति, तत्र वातिकैः वातविशेषगृहीतैः असुरविवरान्वेषणग्रहिलैः इत्यर्थः; अत: हर्षचरितसङ्केते “ वातिकैर्विवरव्यसनिभिराचार्यैः " इति शङ्करकृतव्याख्यानं उपेक्षणीयम् ॥ एवमेव कादंबरीकथायां जरद्रविडधार्मिकवर्णने
१५८ नाभिभुवि (प) १८० कटकं हेमा (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com