________________
दामोदरगुप्तविरचितं
नियाजसमुत्पन्नपबलप्रेमाभिभूतहृदयानाम् । दयितविरहाक्षमाणां गणिकानां तृणसमाः प्राणाः ॥ १७४ ॥ अत्राकर्णय साद्भुतमाख्यानं वर्णयामि यद्वत्तम् । अद्यापि बिति वटो विशेषणं यदभिसम्बन्धात् ॥ १७५ ॥ __ 'अस्ति महीतलतिलकं सरस्वतीकुलगृहं महानगरम् । नाना पाटलिपुत्रं परिभूतपुरन्दरस्थानम् ॥ १७६ ॥ त्रिभुवनपुरनिष्पादनकौशलमिव पृच्छतो विरिश्वस्य । दर्शयितुं निजशिल्पं वर्णकमिव विश्वकर्मणा विहितम् ॥१७७॥
न्ययोषित्सु तथा तासु गणिकासु अपि । गणिका-भर्तृत्वेन गणः समुदायोऽस्ति अस्याः इति सा वेश्या।] जीवतां धर्मेण सन्निसर्गेण (उपनीतानि) संपादितानि स्नेहादीनि तासामपि भवन्ति, तेन ताः सर्वाः केवलं द्रविणप्रवणाः एव भवन्ति इति न शङ्कनीयं इत्यर्थः । [ एतेषां गुणदोषाणां त्रीसामान्यत्वात् गणिकासु दृश्यमाना गुणा न सर्वथ कपटमूलाः, दोषाश्च क्षम्या इति भावः । ] ॥ १७३ ॥ [ तास्वपि कंचिद्विशेषं दर्शयति निर्व्याजेति । निर्व्याजं निरुपधि निष्कपट,] अभिभूतम् आक्रान्तम् । तृणसमा इति प्रियप्रेम्णोऽग्रे प्राणानपि गणिका न गणयन्ति इत्यर्थः ॥ १७४ ॥ [ साद्भुतं आश्चर्ययुक्तम् । वटः न्यग्रोधवृक्षः वड इति प्रसिद्धः । ] विशेषणं तदाख्यायिकोपशं स्मारकाभिज्ञापनं व्यपदेशं [ 'वेश्यावट' इति विशिष्टं नाम ] बिभर्ति ॥ १७५ ॥ [ नायकमनःसमाधानार्थ मालती हारलतोपाख्यानमारभते । तत्रादौ तन्नायकनिवासस्थलं पाटलिपुत्रं नाम नगरं वर्णयति १९२ आर्यां यावत् । ] [ महीतलतिलकं महीतलस्य तिलकं तिलकमिव, यथा स्त्रियः ललाटे तिलकं विशेषकं तद्वत् ; यद्वा, महीतले तिलकं श्रेष्ठम् , " तिलकं द्रुमभेदे च 'ललामेऽस्त्री तु चित्रके । " इति विश्वलोचने । ] सरस्वतीकुलगृहं विद्यानित्यनिवासस्थानम् । [ महानगरं शाखानगरयुक्तं पत्तनम् । पाटलिपुत्रं अधुना पत्तनशब्दात् ' पटना । इति प्रसिद्धम् , प्राचीनकाले गङ्गाशोणयोः सङ्गमे स्थितम् ; तन्निर्माणकथा च कथासरित्सागरे तृतीयतरङ्गे द्रष्टव्या । परिभूतं विजितं, पुरन्दरस्थानं अमरावती। ] ॥ १७६ ॥ विरिञ्चस्येति सम्बन्धसामान्यविवक्षया षष्ठी, [यद्वा उद्देश्यविधेयभावरूपसम्बन्धे षष्ठी, ] पृच्छते विरिञ्चाय ब्रह्मणे दर्शयितुं इत्यर्थः । वर्णकं [ अनुकरणार्थ मूलभूतं ] चित्रकम् । [उक्तं च-" रूपातिशयकर्तृणां
१७७ विरश्चस्य (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com