________________
कुट्टनीमतम् ।
असमञ्जसमश्लीलं दूरोज्झितधैर्यमविनयप्रसरम् । व्यवहारमाचरिष्यसि वृद्धिमुपेते रतावेगे ॥ १६० ॥ अविचेतितनखरक्षतिरामीलितलोचना निरुत्साहा । नायककार्यसमाप्तौ स्थास्यसि शिथिलीकृतावयवा ॥ १६१ ॥ झटिति नितम्बावरणं, निःसहतनुतां, स्मितं सवैलक्ष्यम् ।
खेदालसां च दृष्टिं, जनयिष्यसि मोहनच्छेदे ॥ १६२ ।। निवारणा । तदेव पञ्चबाणस्य मन्ये परममायुधम् ॥” (२ । ३० ) इति ] [प्रौढता प्रागल्भ्यं, असामर्थ्य अशक्तिमत्ता असहिष्णुता वा । ] भावः अभिप्रायः । [स्फुटं व्यक्तम्।] [ 'स्वयं' इति पाठे स्वत एव, तथा च नरनारायणानन्दकाव्ये" रुचितमभितेषु यद्यदासीत्प्रमदास्तत्तदनुक्तमेव चक्रुः । हृदयमपि विदन्त्यमूर्यदेषां नियतं सन्ततमन्तरा वसन्त्यः ॥” (६ । ४४ ) इति । ] ॥ १५९ ॥ [रतकाले नायकवेगे वृद्धिमाप्ते तद्रञ्जनार्थ कर्तव्यविशेषमाह असमञ्जसमिति। असमञ्जसं अनुचितं असङ्गतं वा, अश्लीलं व्रीडादिसम्पादकं, दूरोज्झितधैर्य विलम्बाद्यसहत्वं, अविनयप्रसरं स्वापकर्षभावरहितं, व्यवहारं वाचि क्रियायां च । अत्र “शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः । रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न च क्रमः ॥" इति वात्स्यायनोक्तेरेव (२२) विस्तरः; वात्स्यायने 'नराः । इति स्त्रीणामप्युपलक्षणम् ॥ असमञ्जसं यथा विपरीतरतादि; अश्लील-तदधिकृत्य उक्तं काव्यप्रकाशे सप्तमोल्लासे-" अश्लील क्वचिद्गुणः; यथा सुरतारम्भगोष्ठयां, “ यथैः पदैः पिशुनयेच्च रहस्यवस्तु ” इति कामशास्त्रस्थितौ ।" इति, यद्वा यथा साधनचुम्बनादि च; दूरोज्झितधैर्य यथा रतयाचनादिकं; अविनयप्रसरं यथा प्रिये ताडननखक्षतादिकरणम् । अन्यदा यदसमञ्जसादिकं गण्यते तत् सुरते तादृक् न । तथा च माघकाव्ये-" अन्यदा भूषणं पुंसः क्षमा लजेव योषितः । पराक्रम: परिभवे वैयात्यं सुरतेष्विव ॥” (२।४४ ) इति, वैयात्यं धार्यम् || कविश्व स्वयमेव अत्र हारलतासुरतवर्णने-“ अविनय एव विभूषणमश्लीलाचरणमेव बहुमानः । निःशङ्कतैव सौष्ठवमनवस्थितिरेव गौरवाधानम् ॥ " ( ३७६ ) इति व्याकरोति । ] ॥ १६० ॥ अविचेतिता ज्ञाताऽप्युपेक्षिता । नायककार्यसमाप्तौ रतावसाने । [तदुक्तं रतिरहस्ये (१० । ४४) "सस्तता वपुषि, मीलनं दृशोः, मूर्छना च रतिभावलक्षणम् ॥” इति; रतिभावः सुरततृप्तता।] ॥ १६१॥ [ निःसहतनुता खिन्नाङ्गता। सवैलक्ष्यं सव्रीडम् । 11 खेदालसा मुकुलिताम् । तथा च
__१६० रसावेगे (गो २ का) रताधीरा (प) रतावसरे (कापा) १६१ अविवेचितन. खर० (गो २) आवेदितनखर (प. कापा)। समाप्त्यै (कापा) १६२ झगिति (प. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com