________________
दामोदरगुप्तविरचितं परभृतळावकहंसकपारावततुरगहृदयनिःस्वनितम् ।
अनुकार्यमुचितकाले कलकण्ठि रुतैस्त्वया रसतः ॥ १५७ ॥ 'मामा मामतिपीडय, मुञ्च क्षणमदय, नो समर्थाऽस्मि ।' इति गद्गदास्फुटाक्षरमभिधातव्यस्त्वया कामी ॥ १५८॥ अनुबन्धमानुकूल्यं वामत्वं प्रौढतामसामर्थम् ।
सुरतेषु दर्शयिष्यसि कामुकभावं स्फुटं बुद्धा ॥ १५९ ॥ रिष्यसि इत्यत्रान्वयः । ] ॥ १५६ ॥ परभृतादिस्वनितानि उद्दीपकानि भवन्ति इति रसतः प्रीतिप्रदर्शनपुरःसरं कर्तव्यत्वेन विहितानि । [ परभृत: कोकिल:, ] लावक: [चित्रदेहः ] लावाख्यः पक्षी, अन्ये प्रसिद्धाः । [" तिरश्चां वाशितं रुतम् । " इति अमरः][अन्यत्रापि-"लावकोकिलकपोतहंसिकानीलकण्ठरुतसन्निभात् क्रमात् । संदधाति किल हिंकृतादिकं चित्रभोगसमये विलासिनी ॥” इति अनङ्गरङ्गे (१०।४९)] "तत्र (समतलकरताडने) लावकहंसकूजितं त्वरयैव” (२ । ७) इति वात्स्यायनः । अन्येषां प्रकाराणां एवमेव विवेक ऊह्यः ॥ अत्र कुट्टनीमते अश्वहेषाध्वनिः कव्यनुभवमूलकः शेयः, अन्यत्रानुल्लेखात् , यद्वा तत् अभ्रस्तनितस्थानीयम् ; तच्च सबलाया: चण्डवेगायाः संभवति ॥ ] [ पूर्वोक्त( १५५)सीत्कृतादितः रुतानां भेद एव । तदुक्तं वात्स्यायनेन-"पारावतपरभृतहारीतशुकमधुकरदात्यूहहंसकारण्डकलावकविरुतानि सीकृतभूयिष्ठानि विकल्पशः प्रयुञ्जीत ॥ " इति । तत्र जयमङ्गल:-" सीत्कृतं हि स्वरान्तरसंश्लिष्टं मनोहारि स्यात् , विभागश्लिष्टगीतवत् ।" इति । अत्र स्वरान्तरं स्तम्] ॥ १५७ ॥ [इदं " यदा रागस्योद्रेकात् नायकः पौनःपुन्येन प्रहरेत् तदा वारणार्थानां प्रयोगो युक्तः - ‘सह खिन्नाभ्यां श्वसितरुदिताभ्यां वर्तते यत्र स्तनितं तेन योजितः" इति जयमङ्गलोक्तिसमानम् । गद्गदास्फुटाक्षरं इत्यनेन श्वसितरुदिते लक्ष्येते ॥ तथा च गूर्जरेश्वरमहामात्यवसन्तपालविरचिते नरनारायणानन्दकाव्ये' अलमलमिति वाचमाचरन्त्यो, रभसं तु प्रसभं रते वहन्त्यः । कृतकरुदितचञ्चवोऽपि चञ्चच्चटवो यूनि मुदं ददुस्तरुण्यः ॥ " ( ६ । ४८ । ) इति । १५८ ॥] अनुबन्धं अनुराग, [ आनुकूल्यं प्रियस्य सुरताङ्गकर्मजनकव्यापारवत्ता, तथा च माध:--" यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि तत्तदकुर्वन् । आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥ " ( १० । ७९) इति । (कचित् ) वामत्वं प्रतिकूलत्वं निषेधवत्त्वं, [ तदुक्तं शृङ्गारतिलके “ वामता दुर्लभत्वं च स्त्रीणां या च __१५७ कण्ठरुतैः (प) १५९ अनुरागमा ० (गो २) भावं स्वयं (गो. का.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com