________________
करुणरसकदम्बकम्
इति सा भृशमात्मसम्भवोऽसुखसम्भावनयाऽमिभाविता । गलदश्रुजलप्लुतांशुका, व्यलपत् कल्पितमौलिचालना ॥१३५॥
—पमानन्दकाव्यम् स० १४
[३९] गुरोः स्वर्गलोकगमने विजयसेनसूरेविलापः । श्रुत्वा तद्वजाहत इवाभवद्वाप्पपूर्णनयनयुगः । एष पुनर्दुःखादिदमैजीगदद्गद्गदध्वनितः ॥ २०२ ॥ उच्छिन्नः सुरभूरुहोऽप्यपगता स्वर्धामधेनुः पुन
भग्नः कामघटो मणिः सुमनसां चूर्णीबभूव क्षणात् । दग्धा चित्रलता गतः शकलता हा दक्षिणावर्तभृ
कॅम्बुः स्वर्गिगृहं गते त्वयि गुरौ श्रीहीरसूरीश्वरः (र!)॥२०३॥ हा हा भूधनबोधनैकविबुध ! श्रीसूरिचूडामणे !
हा सिद्धान्तसमुद्रमन्दरगिरे ! हा शासनाहर्मणे ! । हा हा यौक्तिकवाक्पुरन्दरगुरो ! वैराग्यवारी निधे !
हा कारुण्यनिधे ! विधेर्वशतया त्वं कुत्र यातः प्रभो! ॥२०४॥ अद्यास्तं गतवान्सहस्रकिरणश्चन्द्रोऽपि तन्द्रां गतः
शुष्कः क्षीरनिधिविधेविलसितैमेरुविलीनः पुनः ।
१ पुत्रदुःखविचारणया । २ वदति स्म । ३ कल्पवृक्षः । ४ कामधेनुः । ५ शङ्खः । ६ (अकबर) नृपप्रतियोधनेऽद्वैतनैपुण्यवान् । ७ सूर्यः । ८ युक्ति
युक्तवाचि वाचस्पतिः । ९ समुद्रः। १० निद्राम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com