________________
७२
करुणरसकदम्बकम्
कमलाकरवद् वनायो, हिमसन्दोहमयानिलोमिभिः । रजनीषु स हैमनीषु ही, क्लममेत्यावरणेन वर्जितः ॥ १२५ ॥ भृशमुष्णऋतौ सुदारुणैः, किरणैर्रुष्णरुचेश्चिरं स्थिरैः । म्लपितानननीरजोऽङ्गजः, स सरोवत् परितोऽपि शुष्यति ॥१२६॥ स निरावरणो निराश्रय-स्तनयो मे 'विसहाय एव हा । शबरो गिरिंगः स्फुरद् यथा, खलु कालेप्वखिलेषु दुःखितः॥१२७॥ पृथिवीं परिपालयन्त्यमी, भरतो वाहुबलिः सुता परे । न तुकोऽपि करोति संकथामपि सूनोर्मम धिग् विधिक्रमः ॥१२८॥ इति सन्ततसंस्मृतेः सुतं, पुरतः सङ्गतवद् विजानती । इदमालपति म्म सा भृशं, समुपालम्भनकारिवाग्भरा ॥१२९॥ न कदापि ददासि दर्शनं, विशदज्ञाननिधानमानस ! । किमु वत्स! न वेत्सि वत्सलां, जननीं शोकसमाकुलामिमाम्॥१३०॥ जरतीत्यर्वेधीरणाऽस्ति चेन् मयि पौत्राः प्रतिपौत्रकास्ततः । किमु लल्लुरजल्पिनोऽपि नो, कथमुक्तं प्रथयन्ति ते मनः॥१३१॥ अनुगै रहितोऽसि वत्स, तैरपि कच्छप्रमुखैः क्षितीश्वरैः । कथमेकक एव कानने, चरसि क्रूरमृगारिभैरवे ॥ १३२ ॥ अनुगम्य भवन्तमात्मजं, स्वमवश्यं वरिवस्ययाम्यहम् । तव दुःखजरोदनाश्रुभिः, किमु कुर्वे बत लुप्तलोचना ? १३३ ॥ भजति त्वयि राज्यमुज्ज्वलं, सुखमुँन्मेषमियेष यन्मयि ।
अधुना विपिनं श्रयत्यऽभू-दसुखं कोटिगुणं ततः सुत ! ॥१३४॥ १ भानोः। २ सहायरहितः । ३ अग्रतः स्थितमिव । ४ अपमानः ५ अव्यक्तमघुरजल्पिनः। ६ सेवा करोमि। ७ प्रादुर्भावम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com