________________
७४
करुणरसकदम्बकम् भूमौ श्रीजिनसार्वभौमविभवभ्राजिप्णुतां विभ्रति
श्रीसूरीश्वरहीरहीरविजये गीर्वाणगेहं गते ॥ २०५॥ गर्जन्ति प्रतिमन्दिरं प्रमुदिता मिथ्यादृशः कौशिकाः
श्रीमत्संघसरोजकाननमिदं म्लानिं च धत्तेऽधुना । संप्राप्तप्रसराः स्फुरन्ति परितो नैक्तञ्चरा दृशो यातेऽस्तं गैवि हीरसू रतरणौ म्फूर्ति तमः शीलति ॥२०६॥
-हीरसौभाग्यम् स० १७
[४०] श्रीहीरविजयसूरिविरहे विजयसेनसूरे
विलापद्वात्रिंशिका।
ममानिश यत् त्वमवोच ईश ! सुत ! त्वमास्से मम चेतसीति । ययावजाकण्ठकुचोपमा तत् समस्तमुञ्चरैभिजात ! तात ! ॥ ४७ ॥ यर्धनिर्वर्णितमङ्गनानां दिवो दिक्षुः प्रसभं प्रसन्नम् । भवामि यावत्पदपद्मभृङ्गस्तवात्र तावद् न विलम्बितस्त्वम् ॥४८॥ ममाऽभवद् या भगवंस्त्वदंहिसरोजयोः श्रीः पुरतः स्थितस्य । त्वदाननन्यस्तविलोचनस्य सुदुर्लभा साऽथ नभोलतेव ॥ ४९॥
१ तीर्थङ्करलक्ष्मीशोभनशीलताम् । २ घूकसदृशाः। ३ चौरा इव । ४ कुतीथिकाः । ५ पृथिव्यां गगने च । ६ रविः । ७ हे कुलीन !।
८ देवाङ्गनानां कटाक्षोत्क्षेपरूपमर्धावलोकनम् । ९ शोभा। १० गगनवल्लीव । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com