________________
४४
करुणरसकदम्बकम् [ २८ ] अरण्ये सीतायास्त्यागे सेनानेः कारुण्यं तस्याश्च विलापः ।
गंगासागरमुत्तीर्यारण्ये सिंहनिनाद ।
गत्वा कृतान्तवदनस्तस्थौ किञ्चिद्विचिन्तयन् ॥ ३०९ ॥ साधुं म्लानमुखं तं च प्रेक्ष्य सीताब्रवीदिति । कथमित्थं स्थितोऽसि त्वं सशोक इव दुर्मनाः ? ॥ ३१० ॥ कृतान्तः कथमप्यूचे दुर्वचं वच्म्यहं कथम् ? | दुष्करं कृतवांश्चैतत् प्रेष्यभावेन दूषितः ॥ ३११ ॥ राक्षसावाससंवासापवादाल्लोकजन्मनः ।
भीतेन देवि ! रामेण त्याजितासि वनेऽनघे ॥ ३१२ ॥ अपवादे चराख्याते रामं त्वत्त्यजनोद्यतम् । न्यषेवीलक्ष्मणो लोकं प्रति क्रोधारुणेक्षणः ॥ ३१३ ॥ सिद्धाज्ञया निषिद्धश्च रामेण स रुदन् ययौ
I
अहं च प्रेषितोऽसुमिन् कार्ये पापोऽस्मि देवि ! हा ॥ ३१४ ॥ अमुमिच्छ्वापदाकीर्णे मृत्योरेकनिकेतने ।
जीविष्यसि मया त्यक्ता स्वप्रभावेण केवलम् ॥ ३१५ ॥ तच्छ्रुत्वा स्यन्दनात् सीता मूर्च्छिता न्यपतद्भुवि ।
मृतेति बुद्ध्या सेनानीः पापमन्यो रुरोद सः ॥ ३१६ ॥ सीतापि वनवातेन कथञ्चित् प्राप चेतनाम् । भूयो भूयोऽप्यमूर्च्छच्च चेतनामाससाद च ॥ ३१७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com