________________
करुणरसकदम्बकम्
४३ ततः प्रभृति लोकेऽपि, देहिनां शोकसम्भवे । रोदनाध्वा प्रववृते, शोकशल्यविशल्यकः ।। ५०१ ॥ नैसर्गिकमपि त्यक्त्वा, धैर्य भरतभूपतिः । दुःखितो विललावं, तिरश्चोऽपि हि दुःखयन् ॥ ५०२॥ हा तात ! हा जगद्वन्धो !, हा कृपारससागर ! । अज्ञानिह भवारण्ये, त्यक्तवानसि नः कथम् ? ॥ ५०३ ॥ अम्लानकेवलज्ञानप्रकाशेन विना त्वया । 'तमसीव ऋते दीपं, स्थास्यामोऽत्र कथं भवे ? ॥ ५०४ ॥ छद्मस्थस्येव ते मौनं, किमेतत् परमेश्वर ! ? । कुरुप्व देशनां नाऽनुगृह्णासि किममुं जनम् ? ॥ ५०५॥ लोकाग्रमथवाऽयासीभगवन् ! भाषसे न यत् । आभाषन्ते दुःखितं मां, तेऽपि महन्धवो न किम् ? ॥५०६॥ हुं ज्ञातमथवा ते हि, सदा स्वाम्यनुगामिनः । स्वामिनोऽननुगो नास्ति, मत्कुले मां विनाऽपरः ॥ ५०७ ॥
-त्रिषष्टि० ५० १, स० ६, पृ० १६६ ।
१ रोदनमार्गः । २ विना।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com