________________
४२
करुणरसकदम्बकम्
[२७] वृषभप्रभो निर्वाणे भरतस्य क्रन्दनम् ।
स्वामिनिर्वाणकल्याणान्निर्वाणो दुःखपावकः ।
अदृष्टसुखलेशानां, नारकाणामपि क्षणम् ॥ ४९३ ॥
महाशोकसमाक्रान्तश्चक्रवर्ती तु तत्क्षणम् ।
पपात मूच्छितः पृथ्व्यां, वज्राहत इवाऽचलः ॥ ४९४ ॥ महत्यप्यागते दुःखे, दुःखशैथिल्यकारणम् ।
विदांचकार रुदितं, न कश्चिदपि यत् तदा ॥ ४९५ ॥ दुःखशैथिल्य हेतुं तच्चक्रिणोऽज्ञापयत् स्वयम् । शक्रश्चकार रुदितं, महापूत्कारपूर्वकम् ॥ ४९६ ॥ अनु संक्रंदनं चक्रे, क्रन्दनं त्रिदशैरपि ।
समा हि समदुःखानां, चेष्टा भवति देहिनाम् ॥ ४९७ ॥ तेषां च रुदितं श्रुत्वा, संज्ञामासाद्य चक्त्यपि । उच्चैःस्वरेण चक्रन्द, ब्रह्माण्डं स्फोटयन्निव ॥ ४९८ ॥ रूदितेनाऽस्फुटद् राज्ञः, शोकग्रन्थिर्महानपि । पालीबंधो महास्रोतोरंहसेव महीयसा ॥ ४९९ ॥ सुरासुरमनुष्याणां रुदितै रुदितैस्ततः ।
त्रैलोक्ये करुणरस, एकच्छत्र इवाऽभवत् ॥ ५०० ॥
१ महाप्रवाहवेगेन |
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com