________________
करुणरसकदम्बकम्
प्रतिपन्नाद्भवन्तोऽपि चलन्ति यदि तत्प्रभो ! |
मर्यादा लङ्घयिष्यन्ति निश्चितं जलराशयः ॥ २९८ ॥ यद्वा तवापि नो दोषो दोषो मत्कर्मणामयम् । भवत्पाणिगृहीतात्वं वचसैव यदासदम् ॥ २१९ ॥ चारू मातृगृहं दिव्यमण्डपो रत्नवेदिका । विवाह।यावयोरन्यदप्येतदभवन्मुधा ॥ २२० ॥ धवलैर्गीयते यत्तन्न सर्व सत्यमीदृशी । सत्योक्तिस्त्वं हि मे भर्ता गीतोऽस्यादौ न चाभवः ॥ २२१॥ किं युग्मिनां विघटनमकार्ष पूर्वजन्मनि ? । पाणिस्पर्शसुखमपि यत्पत्युर्नाहमाप्नवम् ॥ २२२ ॥ विलपन्तीति सा जघ्ने हस्ताब्जाभ्यामुरः स्थलम् । हारं च त्रोटयामास स्फोटयामास कङ्कणे ॥ २२३ ॥
- त्रिषष्टि० १० ८, स०९, पृ० १३७ ।
४१
१ दम्पतीनाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com