SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् [२६] श्री नेमिकुमारं व्यावृत्तं दृष्ट्वा राजीमत्या विलापः। व्यावृत्तं नेमिनं दृष्ट्वा श्रुत्वा च व्रतकांक्षिणम् । राजीमत्यपतत् पृथ्व्यां वल्लीवाकृष्टपादपा ॥ २१० ॥ तां सख्यः सिषिचुर्भीताः शीतांभोभिः सुगंधिभिः । अवीजयन् व्यजनैश्च कदलीदलनिर्मितैः ॥ २११ ॥ अवाप्तसंज्ञा चोत्थाय कपोललुलितालका । अश्रुधारातिम्यमानकञ्चुका विललाप सा ॥ २१२ ॥ नासीन्मनोरथोऽप्येष यन्नेमिः स्याद्वरो मम । केनाम्यभ्यर्थितो दैव ! यन्नेमिमें वरः कृतः ? ॥ २१३ ॥ विपरीतं कुतोऽकारिकाण्डे दण्डपातवत् ? । एकस्त्वमसि मायावी त्वं च विश्वासघातकः ॥ २१४ ॥ यद्यवं प्रागपि ज्ञान स्वभान्यात्ययान्मया । क्वायं जगत्त्रयोत्कृष्टो वरो नेमिरहं क्व च ? ॥ २१५॥ आत्मनोऽननुरूपाहं ज्ञाता नेमे ! त्वया यदि । तत्यपद्य विवाहं मे जनितः किं मनोरथः ? ॥ २१६ ॥ ननयित्वा च किं भग्नः स्वामिन्मम मनोरथः ? । महतां प्रतिपन्नं हि यावजीवमपि स्थिरम् ॥ २१७ ॥ १ अश्रुधाराभिराद्रीक्रियमाणकञ्चुका । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy