________________
करुणरसकदम्बकम् राज्यं पुत्राः कल्त्राणि, मित्राण्यथ परिच्छदः । तृणवत्सुत्यजं सर्व, त्वत्पादौ दुम्त्यजौ तु मे ॥ १५० ॥ राजीभवति नाथाहं, युवराज्यभवं यथा । त्वयि व्रतधरे शिष्यीभविष्याम्यधुना तथा ॥ १५१ ॥ गुरुपादाम्बुजोपास्तितत्परम्य दिवानिशम् ।। 'शैक्षस्य भैक्षमपि हि, साम्राज्यादतिरिच्यते ॥ १५२ ॥ भवं तरिप्याम्यज्ञोऽपि, भवत्पादावलंब्यहम् । गोपुच्छलग्नो हि तरेन्नदीं गोपालबालकः ॥ १५३ ।। दीक्षां सह त्वयादास्ये, विहरिप्ये सह त्वया । दुःसहांश्च सहिप्येऽहं त्वया सह परीषहान् ॥ १५४ ॥ त्वया सहोपसर्गाश्व, सहिप्ये त्रिजगद्गुरो ! । कथंचिदपि न स्थास्याम्यहमत्र प्रसीद मे ॥ १५५ ।।
त्रिषष्टिः प० २, स० ३, पृ० ३८ ।
१ शिष्यस्य ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com