________________
करुणरसकदम्बकम्
[२५] अजितनाथस्य विरहश्रवणे सगरनृपस्य वचनम् ।
ततः सगरमाहूय, जगाद त्रिजगद्गुरुः । गृह्यतां राज्यभारो नः, संसाराब्धितितीर्पताम् ॥ १४२ ॥ इत्युक्तोऽजितनाथेन, श्यामान्योः अणि पातयन् । एकैकबिन्दुवर्षीव, वारिदः सगरोऽब्रवीत् ॥ १४३ ॥ अभक्तिः किं मया देव !, विदधे देवपादयोः । आत्मनो मां पृथक्कर्तुमद्य येनैवमादिशः ॥ १४४ ॥ अभक्तिर्वास्तु विहिता, नाप्रसादाय सापि हि । पूज्यैरभक्तोऽपि शिशुः, शिप्यते न तु हीयते ॥ १४५ ॥ किं नामालिहेनापि, छायाहीनेन शाखिना ? । किंवा समुन्नतेनापि, वृष्टिहीनेन वार्मुचा ? ॥ १४६ ॥ किं वा निर्झरहीनेन, तुङ्गेनापि महीभृता ? । किं वा लावण्यहीनेन, सुरूपेणापि वैणा ? ॥ १४७ ॥ किं वा गन्धविहीनेन, पुष्पेणापि विकासिना ?। अनेन त्वविहीनेन, राज्येनापि हि किं मम ? ॥ १४८ ॥
॥ त्रिभिर्विशेषकम् ॥ निर्ममस्य निरीहस्म, मुमुक्षोरपि ते सत. । प्रभो ! पादौ न मोक्ष्यामि, का राज्यादानसंकथा ? ॥ १४९॥ १ मेघेन । २ शरीरमा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com