________________
करुणरसकदम्बकम्
मत्सूनोः काऽधुना दंशमशकाद्यैरुपद्रवः ? ॥ ४९४ ॥ क्व तद् देवसमानीत दिव्याहारोपजीवनम् ? |
क भिक्षाभोजनं तस्याऽभोजनं वाऽपि सम्प्रति ॥ ४९५ ॥
३७
रत्नसिंहासनोत्सङ्गे, महर्द्धेः क तदासनम् ? | मत्सूनोः खड्डिन इव, व निरासनताऽधुना ॥ ४९६ ॥ आरक्षैरात्मरक्षैश्च, रक्षिते व पुरे स्थितिः ? | सूनोः क वासः सिंहाहिदुः धापदपदे वने ? || ४९७ ॥ क्व तद् दिव्याङ्गनागीतं, कर्णामृतरसायनम् ? | सूनोः कोन्मत्तै फेरुण्ड फेत्काराः कर्णसूचयः ॥ ४९८ ॥ अहो ! कष्ट हो ! कष्टं, यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः, सहते वारिविद्रवम् ।। ४९९ ॥ हिमत्तौं हिमसम्पातसङ्केशविवशां दशाम् । अरण्ये मालतीस्तम्ब, इव याति निरन्तरम् ॥ ५०० ॥ उष्णर्त्तावुष्णकिरण किरणैर तिदारुणैः ।
सन्तापं चाऽनुभवति स्तम्बेरम इवाऽधिकम् ॥ ५०१ ॥ तदेवं सर्वकालेषु वनेवासी निराश्रयः । पृथग्जन इवैकाकी, वत्सो मे दुःखभाजनम् ॥ ५०२ ॥
तत्तद्दुःखानुलं वत्सं, पश्यन्त्यग्रे दृशोखि । वदन्ती नित्यमध्येवं, हा ! त्वामपि दुनोम्यहम् ॥ ५०३ ॥
त्रिषष्टि० १० १, स० ३, पृ० ८४ ॥
१ गण्डकारख्यपशोः । २ शगालः । ३ जलोपद्रवम् । ४ ग्री मतों ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com