________________
करुणरसकदम्बकम्
३१ __[२०] च्यवनकाले सुराणां विलापः । हा प्रिया ! हा विमानानि !, हा वाप्यो ! हा सुरद्रुमाः !। क द्रष्टव्याः पुनर्पूयं, हतदैववियोजिताः ? ॥ १६६ ॥ अहो स्मितं सुधावृष्टिरहो विबाधरः सुधा । अहो वाणी सुधावर्षिण्यहो कान्ता सुधामयी ॥ १६७ ॥ हा रत्नघटितास्तम्मा, हा श्रीमन्मणिकुट्टिमाः । हा वेदिका रत्नमथ्यः, कस्य यास्यथ संश्रयम् ? ॥ १६८ ॥ हा रत्नसोपानचिताः, कमलोत्पलमालिनः । भविप्यन्त्युपभोगाय, कस्येमाः पूर्णवापयः ? ॥ १६९ ॥ हे पारिजात ! मन्दार ! सैन्तान ! हरिचन्दन !। कल्पद्रुम ! विमोक्तव्यः, किं भवद्भिरयं जनः ? ॥ १७० ॥ हहा स्त्रीगर्भनरके, वस्तव्यमवशस्य मे । हहाशुचिरसास्वादः कर्तव्यो मयका मुहुः ॥ १७१ ॥ ह हा हा जैठराङ्गारशकटीपाकसम्भवम् । मया दुःख विषोढव्यं, बद्धेन निजकर्मणा ॥ १७२ ॥ रतेरिव निधानानि, क तास्ताः सुरयोषितः ? । काशुचिस्पन्दबीभत्सा, भोक्तव्या नरयोषितः ? ॥ १७३ ॥
१ भूमयः । २ कल्पवृक्षाभिधानम् । ३ जठरमेव अङ्गारशकटी तस्याः पाकात्सम्भूतम् । ४ अशुचिप्रस्रवणत्वेन बीभत्साः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com