________________
३२
करुणरसकदम्बकम्
एवं स्वर्लोकवस्तूनि, स्मारं स्मारं दिवौकसः । विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् ॥ १७४ ॥
॥ नवभिः कुलकम् ॥
-त्रिषष्टि० प०३, स० ४, पृ० ३८ ।
[२१] मृगभ्रान्त्या भ्रातृवधे जराकुमारस्य विलपनम् ।
श्रुत्वेति किमयं कृष्ण इति तत्रैव सत्वरम् ।
जरत्कुमार आयासीद्दृष्ट्वा कृष्णं मुमूर्छ च ॥ १३८ ॥ कथमप्याप्तसंज्ञः सेञ्जारेयः करुणं रुदन् ।
पप्रच्छ कृष्णं हा भ्रातः किमेतत्किमिहागमः १ ॥ १३९ ॥ किं द्वारका पुरी दग्धा किं यदूनां क्षयोऽभवत् ? । सा नूनं नेमिवाक् सर्वा सत्या तेऽवस्थयानया ॥ १४० ॥ कृष्णोऽपि सर्वमाचख्यौ जारेयोऽपि रुदन् पुनः । इत्यूचे हा मया भ्रातुरागतस्योचितं कृतम् ॥ १४१ ॥ कनिष्ठं दुर्दशामग्नं भ्रातरं भ्रातृवत्सल्म् । त्वां निहन्तुर्मम स्थानं क्व नाम नरकावनौ ? ॥ १४२ ॥ वनवासं तव त्राणबुद्ध्याकार्षमहं किल ।
न जाने विधिना यत्ते स्थापितः पुरतोऽन्तकः ॥ १४३ ॥
हे पृथ्वि ! देहि विवरं वरमद्यैव येन ताम् ।
अनेनैव शरीरेण प्रयामि नरकावनम् ॥ १४४ ॥
१ जरादेवीपुत्रः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com