________________
३०
करुणरसकदम्बकम्
[ १९ ]
परासुं लक्ष्मणं दृष्ट्वा रामादीनां विलापः ।
पेरासुं लक्ष्मणं प्रेक्ष्य तत्र चान्तः पुरस्त्रियः । चक्रन्दुः सपरीवारा विलुलकुन्तलालिकाः ॥ १२७ ॥ तच्चक्रन्दितमाकर्ण्य तत्र रामः समाययौ । उवाच च किमारब्धनविज्ञायाप्यमङ्गलम् ॥ १२८॥ जीवन्नेवैष तिष्ठाभि जीवत्येष च मेऽनुजः । कोऽप्यमुं बाधते व्याधिर्भेपजं तत्यतिक्रिया ॥ १२९ ॥ इत्युक्त्वा जुहवद्रामो वैद्याज्योतिषिकानपि । प्रयोगं मंत्रतन्त्राणां कारयामास चासकृत् ॥ १३० ॥ वैफल्ये मन्त्रतन्त्राणां मूर्च्छा प्राप रघूद्वहः । कथञ्चि लब्धसज्ञः सन् विललापोच्चकैः स्वरम् ॥ १३१ ॥ तें विभीषणसुग्रीवशत्रुताद्या उदश्रवः । विमुक्तकण्ठं रुरुदुर्हताः स्म इति भाषिणः ॥ १३२ ॥ कौशल्याद्या मातरश्च स्नुपाभिः सह साश्रवः । भूयो भूयोऽपि मूर्च्छन्त्यश्चक्रन्दुः करुणस्वरम् ॥ १३३ ॥ प्रतिमार्ग प्रतिगृहं प्रत्यहं क्रन्दनात्तदा । शोकाद्वैतमभूत् सर्वं रसान्तरमलिम्लुचम् ॥ १३४ ॥
- त्रिषष्टि० प० ७, स० १०, पृ० १२७॥
१ मृतम् । २ विलुन् कुंतलालि: केशपंक्तिर्यासां ताः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com