________________
करुणरसकदम्बकम्
[१८] पवनञ्जयस्यामिप्रवेशश्रवणे
अञ्जनाया विलापः। प्रतिसूर्याञ्जनयोस्तेऽञ्जनाविरहदुःखतः । 'पवनस्यामिप्रवेशप्रतिज्ञामाचचक्षिरे ॥ २५८ ॥ दुःश्रवं तद्वचः श्रुत्वा पीत्वा विषमिवाञ्जना । हा हतास्मीति जल्पन्ती पपात भुवि मूर्छिता ॥ २५९ ॥ आसिक्ता चन्दनांभोभित्तालवृन्तैश्च वीजिता । लब्धसञ्ज्ञा समुत्थाय सा लोदेति दीनगीः ॥ २६० ॥ 'पतिव्रताः पतिशोकात् प्रविशन्ति हुताशने । तासां विना हि भर्तारं दुःखाय खलु जीवितम् ॥ २६१ ॥ नारीसहस्रभोक्तृणां भर्तृणां श्रीमतां पुनः । क्षणिकः प्रेयसीशोकस्तत्कुतोऽग्निप्रबेशनम् ॥ २६२ ॥ विपरीतमिदं जज्ञे त्वयि वहिप्रवेशनि । विरहेऽपि मयि पुन: जीवन्त्यामियच्चिरम् ।। २६३ ।। महासत्त्वस्य तस्याल्पसत्त्वायाश्च ममान्तरम् । उपलब्धमिदं नीलकाचयोरिव सम्प्रति ॥ २६४ ॥ न मे श्वशुरयोर्दोषो दोषः पित्रोने चाप्ययम् । ममैव मंदभाग्यायाः कर्मदोषोऽयमीदृशः ॥ २६५ ॥
—त्रिषष्टिः ५० ७, स० ३, पृ० ३८ ।
१ नीलमणेः काचस्य च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com