________________
करुणरसकदम्बकम्
-
-
[१४] गृहानिर्वासिताया अञ्जनाया विलापः।
पर्यटन्ती तु सा प्राप कामप्येकां महाटवीम् । गिरिकुञ्ज तरोर्मूले निषद्य विललाप च । १५२ ॥ अहो मे मन्दभाग्याया गुरूणामविचारतः । अग्रे दण्डोऽभवत्पश्चादपराधविवेचनम् ॥ १५३ ॥ साधु केतुमति ! कुलकलको रक्षितस्त्वया। वयापि सम्बन्धिभयात्तात ! साधु विचारितम् ॥ १५४ ॥ दुःखितानां हि नारीणां माताश्वासनकारणम् । पतिच्छन्दजुषा मातस्त्वयाप्यहमुपेक्षिता ।। १५५ ॥ भ्रातर्दोषोऽपि नास्त्येव ताते जीवति ते ननु । नाथ ! त्वयि च दूरस्थे जज्ञे सर्वोऽप्यरिर्मम ॥ १५६ ॥ सर्वथा स्त्री विना नाथं मैकाहमपि जीवतु । यथाहमेका जीवामि मन्दभाग्यशिरोमणिः ॥ १५७ ॥
—त्रिषष्टिः प० ७, स० ३, ४० ३४ ।
१ पतीच्छानुवर्तिनी । २ एकदिवसमपि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com