________________
२६
करुणरसकदम्बकम्
[१५] दवदन्तीति उपलक्षणे चन्द्रयशाया वचनानि ।
किमात्मगोपनं कृत्वा वञ्चितास्मि त्वयानधे ! |
यद्येवं दुर्दशा दैवात् का ही मातृकुले निजे ? || ८३५ ॥ हा वत्से ! किं त्वया मुक्तो नलो मुक्तासि तेन वा ? | नूनं मुक्तासि तेन त्वं त्वं सती तं न मुञ्चसि ॥ ८३६ ॥ त्वयापि यदि हीयेत दुर्दशापतितः पति ।
उदयेत तदा नूनं पश्चिमायां दिवाकर || ८३७ ॥ नलात्याक्षीः कथमिमां ? मत्पार्श्वे नामुचः कथम् ? | किं ते कुलोचितमिदं दयितां त्यजतः सतीम् ? ॥ ८३८ ॥ दुःखं गृह्णामि ते वत्से ! "क्रियाः समवतारणम् ।
औगः सहस्व मे यत्त्वं न मयाम्युपलक्षिता ।। ८३९ ॥
तमोऽहिगरुडः कृष्णनिशायामपि भास्करः ।
क्व वा स तिल्को बाले ! तवालिकसहोद्भवः ? ॥ ८४० ॥
- त्रिषष्टि १० ८, स० ३, पृ० ६९ ।
१ निर्दोषा । २ दुःखस्योत्तारणं क्रियाः विधेयाः । ३ अपराधम् । ४ भालम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com