SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २६ करुणरसकदम्बकम् [१५] दवदन्तीति उपलक्षणे चन्द्रयशाया वचनानि । किमात्मगोपनं कृत्वा वञ्चितास्मि त्वयानधे ! | यद्येवं दुर्दशा दैवात् का ही मातृकुले निजे ? || ८३५ ॥ हा वत्से ! किं त्वया मुक्तो नलो मुक्तासि तेन वा ? | नूनं मुक्तासि तेन त्वं त्वं सती तं न मुञ्चसि ॥ ८३६ ॥ त्वयापि यदि हीयेत दुर्दशापतितः पति । उदयेत तदा नूनं पश्चिमायां दिवाकर || ८३७ ॥ नलात्याक्षीः कथमिमां ? मत्पार्श्वे नामुचः कथम् ? | किं ते कुलोचितमिदं दयितां त्यजतः सतीम् ? ॥ ८३८ ॥ दुःखं गृह्णामि ते वत्से ! "क्रियाः समवतारणम् । औगः सहस्व मे यत्त्वं न मयाम्युपलक्षिता ।। ८३९ ॥ तमोऽहिगरुडः कृष्णनिशायामपि भास्करः । क्व वा स तिल्को बाले ! तवालिकसहोद्भवः ? ॥ ८४० ॥ - त्रिषष्टि १० ८, स० ३, पृ० ६९ । १ निर्दोषा । २ दुःखस्योत्तारणं क्रियाः विधेयाः । ३ अपराधम् । ४ भालम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy