________________
२४
करुणरसकदम्बकम्
[१३] वनमालावियोगे वीरकुविन्दस्य प्रलपनम् ।
इतो वीरकुविन्दोsपि वियुक्तो वनमालया । भूताविष्ट इवोन्मत्त इव मत्त इवाभ्रमत् ॥ ६२ ॥ धूल धूसर सर्वाङ्गो जीर्णकर्पटखण्डवत् । विसंस्थुल शिरः केशो दीर्घरोमनखावलिः ॥ ६३ ॥
उत्तालतुमुलैः पौरदारकैः परिवारितः । वनमाले ! वनमाले ! क्कासि मे देहिं दर्शनम् ॥ ६४ ॥ निरागस किमत्याक्षी रेकमेकपदेऽपि माम् ? | अथवा नर्मणात्याक्षीः सुचिरं युज्यते न तत् ॥ ६५॥ रूपलब्धेन वा रक्षोयक्ष विद्याधरादिना । केनाप्यपहृतासि त्वं धिग्धिङ्नां गतभाग्यकम् ? ॥ ६६॥ इत्यादि प्रलपन् पुर्या चत्वरेषु त्रिषु च । वराको रङ्कवत् कालमतिवाहयति स्म सः ॥ ६७ ॥
पंचभिः कुलकम् ॥ ५॥
- त्रिषष्ठि १० ६, स० ७, पृ० २१३ ।
2
१ जीर्णवस्त्र खण्डवत् । २ हास्येन ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com