________________
करुणरसकम्दबकम्
२३ [१२] प्रभुदर्शनविलम्बे बाहुबलेः शोकः । हस्तविन्यस्तचिबुको, बाप्पायितविलोचनः । अथेदं चिन्तयामास, ताम्यंस्तक्षशिलापतिः ॥ ३७० ॥ स्वामिनं पूजयिष्यामि, समं परिजनैरिति । मनोरथो मुधा मेऽभूद्, हृदि बीजमिवोरे ॥ ३७१ ॥ चिरं कृतविलम्बस्य, लोकानुग्रहकाम्यया । धिगियं मम सा जज्ञे, स्वार्थभ्रंशेन मूर्खता ॥ ३७२ ॥ धिगियं वैरिणी रात्रिधिगियं च मतिर्मम । अन्तरायकरी स्वामिपादपद्मावलोकने ॥ ३७३ ॥ विभातमप्यविभातं भानुमानप्यभानुमान् ।। दशावप्यशावेव, पश्यामि स्वामिनं न यत् ।। ३७४ ॥ अत्रप्रतिमया तस्थौ, रात्रि त्रिभुवनेश्वरः । अयं पुनर्बाहुबलिः, सौधे शेते स्म 'निस्त्रपः ॥ ३७५ ॥
__-त्रिषष्ठि० ५० १, स० ३, पृ० ८०
१ बाहुबलिनृपः । २ क्षारभूमौ । ३ लज्जारहितः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com