________________
करुणरसकदम्बकम्
२२
[११] प्रियायाश्यवने ललिताङ्गदेवस्य विलापः।
दलं वृशादिव दिवस्ततोऽच्योष्ट स्वयंप्रभा। आयुःकर्मणि हि क्षीणे, नेन्द्रोऽपि स्थातुमीश्वरः ॥ ५१५ ॥ आक्रान्तः पर्वतेनेव, कुलिशेनेव ताडितः । प्रियाच्यवनदुःखेन, ललिताङ्गोऽथ मूछितः ॥ ५१६ ॥ लब्धसंज्ञः क्षणेनाऽथ, विललाप मुहुर्मुहुः । विमानं श्रीप्रभमपि, प्रतिशब्दविलापयन् ॥ ५१७ ॥ प्राप नोपवने प्रीति, न वाप्यामपि 'निर्ववौ । क्रीडाशैलेऽपि न स्वस्थान्नानन्दन्नन्दनेऽपि सः ॥ ५१८ ॥ हा प्रिये ! हा प्रिये ! क्वाऽसि, काऽसीति विलपन्नसौ । स्त्रयम्प्रभामयं विश्व, पश्यन् बभ्राम सर्वतः ॥ ५१९ ॥
-त्रिषष्ठि प० १, स० १, पृ० १९
१ वज्रेणेव । २ शान्ति जगाम । ३ क्रीडापर्वते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com