________________
२१
करुणरसकदम्बकम् तदनुयायी, चिन्तितमनया-“ नूनं भग्नप्रणयेयं रुष्टा क्वचिद् गच्छति में वधूः, अयं पुनरस्या एव प्रसादनार्थ पृष्ठतो लमो मम पुत्रकः, " ततो दूरं गतयोरावयोरनुमार्गेणागच्छन्ती समागताऽम्बापि तत्र शून्यगृहे, दृष्टा तथा लम्बमाना नरसुन्दरी, चिंतितमम्बया-हा हा हताऽस्मि, नूनं मत्पुत्रकस्यापीयं वार्ता, कथमन्यथाऽस्यामेवं व्यवस्थितायां स तूष्णीमासीत?, मया तु शैलराजीयावलेपनदोषेणैव अवस्तुनिर्बन्धपरेयमिति कृता तदेवधीरणा, ततः शोकभरान्धया मम पश्यत एव तथैव व्यापादितोऽम्बयाऽप्यात्मा, ततः साध्वससन्तापेनेव शुष्कं मनाङ् मे स्तब्धचित्ताभिधानं तत्तदा हृदयावलेपनं, गृहीतोऽहं पश्चात्तापेनाक्रान्तः शोकभरेण,
ततः स्वाभाविकस्नेहविह्वलीभूतमानसः । क्षणं विधातुमारब्धः, प्रलापमतिदारुणम् ॥ १ ॥
-उपमितौ प्र० ३, पृ० ३१९-३२१ ॥
१ तिरस्कारः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com